पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
[तृप्तिदीप
पञ्चदशी

न मृतो दशमोऽस्तीति श्रुत्वाऽप्तवचनं तदा
परोक्षत्वेन दशमं वेत्ति स्वर्गादिलोकवत् ॥ २६ ॥

 दशमो न मृतः किं त्वस्त्येवेत्याप्तवचनमाप्तस्य यथार्थवक्तुर्वचनं श्रुत्वा तदा तद्वाक्यश्रवणानन्तरं परोक्षत्वेन दशमं वेत्ति । स्वगतदशमत्वसंख्यां परोक्ष त्वेन वेत्ति । आप्तवाक्याद्दशमो न मृत इत्येतावन्मात्रं मन्यते । अत्रोदाहरणमाह, स्वर्गेति । आप्तवचनं श्रुत्वेति तन्त्रेणान्वयः । यथाप्तस्यापौरुषेयत्वात्सकलदोषाशंका निवारकस्य वेदस्य वचनं श्रुत्वा स्वर्गादिलोकमस्तीति मात्रम् वेत्ति तद्वदित्यर्थः ॥२३॥

 एवमाप्तवाक्यानमित्तपरोक्षज्ञाने कास्ति दशम ? इति पृष्टेन सुहृदा त्वमेव दशम इति प्रदर्शितः सुहृद्वाक्यतः सामानाधिकरण्यबलात्स्वस्मिन् दशमत्वज्ञानेनापास्ताज्ञानमूलकावरणो द्शमत्वेन स्वमपरोक्षतया ज्ञात्वा हृष्यती त्याह, त्वमिति ।

त्वमेव दशमोऽसीति गणयित्वा प्रदर्शितः।
अपरोक्षतया ज्ञात्वा हृष्यत्येव न रोदिति ॥ २७ ॥

 स्वेन परिगणितैर्नवभिस्सहाप्तेन गणयित्वा अपरोक्षतया दशमोऽहमिति । स्पष्टमन्यत् । अज्ञाननाशे तत्वतो विक्षेपोऽपि नश्यतीत्याह, न रोदितीति ॥ २७ ॥

चिदाभासस्य सप्तावस्थाविवरणम् ।

 दृष्टान्तं दार्ष्टान्तिके योजयति, अज्ञानेति ।

अज्ञानावृतिविक्षेपद्विविधज्ञानतृप्तयः।
शोकापगम इत्येते योजनीयाश्चिदात्मनि ॥ २८ ॥

 अज्ञानिनि दशम इव चिदात्मन्यात्मविषयेऽज्ञानावृतिविक्षेपद्विविधज्ञान तृप्तयो याथार्थ्यस्याज्ञानं, तत्कृतावृतिर्मोहः, तन्निमित्तः, कार्यरूपो, विक्षेपः आप्त- बाक्यादिजन्यं परोक्षमपरोक्षमितिद्विविधं ज्ञानं, तत्फलं तृप्तिः, तद्द्वारा शोकापगमो दुखानिवृत्तिरित्येते, सप्तावस्थाविशेषा योजनीयाः ॥२८॥