पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२५३
कल्याणपीयूषव्याख्यासमेता

 उक्तावस्थासप्तकस्य चिदात्मनि दिदर्शयिषया प्रथमामज्ञानावस्थां प्रदर्शयति, संसारेति ।

संसारासक्तचित्तः संश्चिदाभासः कदाचन ।
स्वयंप्रकाशकूटस्थं स्वतत्वं नैव वेत्त्ययम् ॥ २९ ॥

 स्पष्टोऽर्थः ॥ २९ ॥

 आवरणविक्षेपौ योजयति, नेति ।

न भाति नास्ति कूटस्थ इति वक्ति प्रसंगतः ।
कर्ता भोक्ताऽहमस्मीति विक्षेपं प्रतिपद्यते ॥ ३० ॥

 प्रसंगतः कूटस्थविषयकचर्चाप्रसंगे कूटस्थो न भाति न प्रकाशते, नास्ती त्यज्ञानकृतावरणाद्यदार्थस्वरूपग्रहणासमर्थोऽज्ञानी वदति । अनेनावरणमुक्तम् । अहं कर्ता कर्मण्यधिकृतः अहं भोक्ता तत्फलस्यानुभवितेति कार्यात्मकं विक्षेपम् प्रतिपद्यते प्राप्नोति । एवं विक्षेपरूपं प्रदर्शितम् ॥ ३० ॥

 परोक्षापरोक्षज्ञाने योजयति, अस्तीति ।

अस्ति कूटस्थ इत्यादौ परोक्षम् वेत्ति वार्तया ।
पश्चात्कूटस्थ एवास्मीत्येवं वेत्ति विचारतः ॥ ३१ ॥

 वार्तया “अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरि” (तै. २. ६. त्याद्याप्तश्रौतवाक्यश्रवणेन कूटस्थोऽस्तीत्यादौ कूटस्थं परोक्षं वेत्ति । पश्चादनन्तरं श्रुतश्रौतवाक्यस्य मनननिदिध्यासाभ्यां विचारतोऽहं कूटस्थ एवास्मीत्यपरोक्षतयापि वेत्ति ॥ ३१ ॥

 एवं विदस्तृप्तिशोकापगमौ प्रदर्शयति, कर्तेति ।

कर्ता भोक्तेत्येवमादिशोकजातं प्रमुंचति ।
कृतं कृत्यं प्रापणीयं प्राप्तमित्येव तुष्यति ॥ ३२ ॥

 कूटस्थोऽहमिति ज्ञानानन्तरमहं कर्ताऽहं भोक्तेत्यादि शोकजातं प्रमुञ्चति त्यजति । दुःखस्य निवृतौ कृत्यं यन्मया कर्तव्यं तत्सर्वं कृतम् । यन्मया प्रापणीय