पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२५५
कल्याणपीयूषव्याख्यासमेता

अमार्गेण विचार्याथ नास्ति नो भाति चेत्यसौ ।
विपरीतव्यवहृतिरावृतेः कार्यमिष्यते ॥ ३६ ॥

 अमार्गेण “ नैषा तर्केण मतिरापनेये"ति (कठ. १. २. ९) मानुषबुद्ध्य तीतविषयं , प्रति केवलबुद्धिसहायेने विचार्य अथ असौ कूटस्थो नास्ति नो भातीति विपरीतव्यवहृतिः विपरीता वस्तुस्थितिविरुद्धा या व्यवहृतिः व्यवहारः साऽज्ञान कृताया आवृतेः कार्यमिष्यते । एतादृशव्यवहारकारणमावृतिरिति यावत् ॥३६॥

 विक्षेपबंधकावाह देहेति ।

देहद्वयचिदाभासरूपो विक्षेप ईरितः ।
कर्तृत्वाद्यखिलः शोकः संसाराख्योऽस्य बंधकः ॥ ३७ ॥

 देहद्वयचिदाभासरूपः स्थूलसूक्ष्मशरीरद्वयसहितश्चिदाभासो विक्षेप इती- रितः । कर्तृत्वाद्यखिलः, आदिशब्देन भोक्तृत्वप्रमातृत्वादयो गृह्यन्ते । संसाराख्य: शोकः अस्य चिदाभासस्य बंधकः । बंधहेतुः। कर्तृत्वाद्यखिलः संसारः देहद्वयो पाधिकस्य जीवस्य कार्यमिति भावः ॥ ३७ ॥

 ननु सप्तावस्था इमास्सन्ति चिदाभासस्येति यदुक्तं तदसंगतम् । बुद्धि प्रतिबिंबितस्य विक्षेपन्तःपतितस्य चिदभासस्योत्पत्तेः प्रागेवाज्ञानावरणयो वैिद्यमानत्वादित्याशंक्य असंगस्यात्मनोऽवस्थानुपपत्तेचिदाभासस्यैव ते इत्याह, अज्ञानमिति ।

अज्ञानमावृतिश्चैते विक्षेपात्प्राक्प्रसिध्यतः।
यद्यप्यथाप्यवस्थे ते विक्षेपस्यैव नात्मनः ॥ ३८॥

 यद्यपि विचार्यमाणे अज्ञानमावृतिश्चैते विक्षेपात्प्रागेव प्रसिध्यतः प्रकृशैरेक देशत्वात् , अथापि तेअवस्थे । विक्षेपस्यैव चिदाभासस्यैव न आत्मनः । चिदा भासस्याप्यज्ञानकल्पितत्वात्तस्य विक्षेपशब्दभावम् ॥ ३८॥

 नन्ववस्थावतश्चिदाभासस्योत्पत्तेः प्रागेव विद्यमानयोरज्ञानावृत्योस्तस्या- पादनमसमंजसमेव स्यादित्याशंक्याह,विक्षेपेति ।