पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
[तृप्तिदीप
पञ्चदशी

विक्षेपोत्पत्तितः पूर्वमपि विक्षेपसंस्कृतिः ।
अस्त्येव तदवस्थात्वमविरुद्धं ततस्तयोः ॥ ३९ ॥

 विक्षेपसंस्कृतिः विक्षेपस्य संस्कारः । स्पष्टमन्यत् । अवस्थावतः पूर्वमवस्थो त्पत्तिरिति नात्र किमपि चोद्यम् तत्र तदंकुरस्य विद्यमानत्वादिति भावः ॥३९॥

 नन्ववस्थावतश्चिदाभासस्योत्पत्तेः प्रागेव तदवस्थासंस्कृतेः कल्पनागौरवा- दाधिष्ठानभूतस्य सुप्रसिद्धस्य कूटस्थस्यैवैतेअवस्थे इति कल्पना वरम् । असंगस्य त्वनयोरेवस्थयोरारोपणात्तदवस्थात्वमेव युक्तमित्याशंकां परिहरति, ब्रह्माणीति ।

ब्रह्मण्यारोपितत्वेन बह्मावस्थे इमे इति ।
न शंकनीयं सर्वासां ब्रह्मण्येवाधिरोपणात् ॥ ४० ॥

 इमे अज्ञानावृती ब्रह्माणि कूटस्थे तादात्म्याध्यासेनारोपितत्वेन ब्रह्मावस्थे इति न शंकनीयम् । कुतः? सर्वासामवस्थानां ब्रह्मण्येवाधिरोपणादध्यस्तत्वात् । यद्यारोपमात्रेणानयोर्ब्रह्मावस्थात्वमंगीक्रियते सर्वारोपाधिष्ठानतया सर्वा अप्यवस्था ब्रह्मण एवेति वक्तुं शक्यत्वात् ॥४०॥

 सप्तावस्थानां ब्रह्मण्यारोपितत्वेऽन्यनिष्ठास्तत्रारोप्यन्त इत्यवश्यमभ्यु- पेयम् । वस्तुतस्तु तदवस्थाविशिष्टस्यान्वेषणे विक्षेपादीनामनुभवेन जीवनिष्ठत्व मवगम्यते । अतस्तदवस्था जीवनिष्ठेत्यंगीक्रियते । ततश्च वास्तविकव्यवहार संभवे आरोपितव्यवहारस्यायुक्तत्वात्ता अवस्था ब्रह्मणो भवन्ति । आद्यावस्था- द्वयस्याश्रयो न ज्ञायत इति तद्विषये आरोपेण ब्रह्मावस्थात्वमेवाभ्युपेयम् । अतस्ते अपि जीवस्येति कथं निश्चीयत इत्याशंक्य परिहरति द्वाभ्याम्, संसारीति।

संसार्यहं विबुद्धोहं निःशोकस्तुष्ट इत्यपि ।
जीवगा उत्तरावस्था भान्ति न ब्रह्मगा यदि ॥ ४१ ॥

तर्ह्यज्ञोऽहं ब्रह्मसत्वभाने मद्दृष्टितो न हि ।
इति पूर्वे अवस्थे च भासेते जीवगे खलु ॥ ४२ ॥