अहं संसारी अहं विबुद्धः निःशोकः तुष्ट इत्युत्तरावस्था विक्षेपादयो जीवगा जीवंगताः सस्यः भान्ति । अतोऽनुभवबलाज्जीवगत्वम् निश्चित्य तासां ब्रह्गत्वं नाभ्युपेयम् । तदेतदाह, न ब्रह्मगा इति । इति यदि शंक्यते तर्ह्यहमज्ञो मद्दृष्टितो ब्रह्मसत्वभाने ब्रह्मणो विद्यमानत्वं स्वप्रकाशमानत्वम् च न हि न विद्यते । न भाति नास्तीत्यनुभवसिद्धे पूर्वेऽवस्थेऽज्ञानवृत्यवस्थे जीवगे भासेते प्रतीयेते खलु। तयोरवस्थयोरपि जीवगत्वेनानुभूयमानत्वात् । अतो जीवस्यैते इति वक्तव्यम् । एवं च तयोरपि मुख्याश्रयमादाय व्यवहारोपपत्तावारोपितत्वमात्रेण ब्रह्मवस्थात्वं न शंकनीयमितरावस्थावदिति भावः ।। ४२ ॥
यथानुभवबलादज्ञानं जीवावस्थेत्यंगीकृतं तथाऽज्ञानस्याश्रयो ब्रह्मेति पूर्वाचार्याणां व्यवहारबलादज्ञानं ब्रह्मणोऽवस्थेत्यंगीकर्तव्यामिति चोद्यम् पूर्वाचार्य- व्यवहारस्यान्यधोपपात्तिप्रदर्शनेन परिहरति, अज्ञानेति ।
अज्ञानस्याश्रयो ब्रह्मेत्यधिष्ठानतया जगुः । |
ब्रह्मा अज्ञानस्याश्रय इत्यधिष्ठानतया जगुः। अज्ञानस्याश्रय इति व्यवहारो ब्रह्मणोऽधिष्ठानत्वमादाय ब्रह्मणोऽज्ञानत्वबुबोधयिषया कृतः । न तु तदवस्थात्व- मंगीकृत्य। अद्य तु जीवस्याज्ञानाभिमानित्वादज्ञानाभिमानित्वविवक्षया तस्य जीवावस्थात्वमवादिषमवोचम् ॥ ४३ ॥
तन्निवृत्तेर्मोक्षहेतुकथनम् ।
अज्ञानाद्यवस्थासप्तके बंधहेतुभूतावस्थात्रयं प्रदर्शय तन्निवृत्तेर्मोक्षहेतु विवक्षया तन्निवृत्युपायमवस्थाद्वयमाह, ज्ञानद्वयेति ।
ज्ञानद्वयेन नष्टेऽस्मिन्नज्ञाने तत्कृतावृतिः। |
जीवेनानुभूयमानेऽस्मिन्नज्ञाने ज्ञानद्वयेन परोक्षापरोक्षरूपेण नष्टे सति “कूटस्थो न भाति नास्ती"त्याकारकद्विविधा तत्कृता तदज्ञानकृता आवृतिरपि विनश्यति । कारणनाशेकार्यनाशः ॥ ४४ ॥