शोधनश्रमापनोदकाह्लादनपूर्वकमर्थप्रकाशनक्षमो भवत्ययं ग्रन्थ इति कौमुदीसादृश्य
मूलकज्योत्स्नात्वारोपोऽत्रेति नार्थाऽसङ्गतिः।
नमः नमस्कारोऽस्तु; कस्मै ? श्रीशङ्करानन्दगुरुपादाम्बुजन्मने, श्रिया
अणिमाद्यष्टैश्वर्यैर्युक्तः स चासौ शङ्करश्च श्रीशङ्करः । शं निरतिशयानन्दं
करोत्यशेषदुःखोन्मूलकज्ञानोपदेशेन प्रापयतीति शङ्करः । शङ्करश्चासावानन्दश्च
शङ्करानन्दः आनन्दः परं ब्रह्म, ब्रह्मभावमापन्न इत्यर्थः; यद्वा शङ्करः निरतिशय
सुखकारी ज्ञानिलोकस्य परमात्मा, ‘एष ह्येवानन्दयाती'ति श्रुतेः' (तै.२.७)
आनन्दः शोधितजीवः प्रत्यगात्मा, तदभिन्नं परं ब्रह्मेत्यर्थः ‘आनन्दो ब्रह्मेति
व्यजाना'दिति श्रुतेः(तै. ३. ६)। शङ्करानन्दशब्दयोस्सामानाधिकरण्येन परमात्म
प्रत्यगात्मनोरभेदस्सूचितः । स एव गुरुः देशिकः, तस्य पाद एव अम्बुजन्म नीरजं
तस्मै; पाद इति जातावेकवचनम्; अम्बुजन्मने कथं भूताय ? स विलास
महामोहग्राहग्रासैककर्मणे विलासः सृष्टिरूपः कार्यवर्गः, तेन सहितो यो
महामोहः मूलाज्ञानं स एव ग्राहः मकरः, तस्य ग्रासः निर्मूलनं, स एव एकं
मुख्यं, कर्म चेष्टा यस्य तस्मै । नन्वचेतनस्य अम्बुजन्मनश्चेतनसाध्यस्य ग्राह
ग्रासैकरूपस्य कर्मणोऽसम्भव इति चेन्न; अचेतनस्याप्यम्बुजन्मनो गुरुपादत्वेन
परिणामेन ग्रासैककर्मणि क्षमत्वात्; परिणामोऽयमलङ्कारः, ‘परिणामः क्रियार्थश्चेद्विषयी विषयात्मना,’ यथा 'प्रसन्नेन दृगज्जेन वीक्षते मदिरेक्षण' । अशेषसंसार
कारणीभूताज्ञानोच्छेदनक्षमगुरुचरणसरोजाभ्यां नमोवाकमाशास्महे इति भावः ।
अत्र शङ्करानन्दशब्दयोस्सामानाधिकरण्येन जीवब्रह्मणोरैक्यम् विषयसूचितः,महा
मोहग्राहग्रासैकेत्यादिनाशेषावरणोन्मूलकब्रह्मसाक्षात्कारः प्रयोजनं सूचितम् ॥ १ ॥
पूर्वत्र व्यङ्ग्यमर्यांदया सूचिते विषयप्रयोजनेऽधिकारिणं च स्पष्टमुपपादयति, तदिति,
तत्पदाम्बुरुहद्वन्द्वसेवानिर्मलचेतसाम् । |
तत्पदाम्बुरुहद्वन्द्वसेवानिर्मलचेतसां तस्य पादावेव अम्बुरुहे तयोर्द्वन्द्वं युग्मं तस्य सेवया अर्चनेन पूर्वोत्थानजघन्यशायित्वाद्युपलक्षितपरिचर्यया