पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
[तृप्तिदीप
पञ्चदशी

 ननु ज्ञानद्वयेन न भाति नास्तीत्याकारकद्विविधावृतेर्नाश इत्युक्तम् । तत्र केन कस्य नाश इत्याशंकायामाह, परोक्ष इति ।

परोक्षज्ञानतो नश्येदसत्त्वावृतिहेतुता ।
अपरोक्षज्ञाननाश्याह्याभानावृतिहेतुता ॥ ४५॥

 असत्त्वावृतिहेतुता नास्ति कूटस्थ इत्याकारका या आवृतिस्तस्या अज्ञान निष्ठा कारणता । अभानावृतिहेतुता न भाति कूटस्थ इत्याकारकाभानावृतेर्हेतुता। स्पष्टमन्यत् ॥ ४५ ॥

 एवंरूपज्ञानस्य प्रथमं फलं संसारनिवृत्तिरित्याह, आभानेति ।

अभानावरणे नष्टे जीवत्वारोपसंक्षयात् ।
कर्तृत्वाद्यखिलः शोकः संसाराख्यो निवर्तते ॥ ४६ ॥

 जीवत्वारोपसंक्षयात् कूटस्थे तादात्म्येन जीवभावस्य भ्रान्तिकृतो योऽध्यास स्तस्य सम्यङ्नाशात्। स्पष्टमन्यत् ।आभानावरण- नाशोक्तेरर्थादसत्वावरणनाशोप्युक्तो भवति । तन्नाशाभावेऽभानावरणनाशस्यासंभवात् ॥ ४६॥

 शोकनिवृत्त्यनन्तरं तृप्तिरूपं द्वितीयं फलं प्रदर्शयति, निवृत्त इति ।

निवृत्ते सर्वसंसारे नित्यमुक्तित्वभासनात् ।
निरंकुशा भवेत्तृप्तिः पुनः शोकासमुद्भवात् ।। ४७ ।।

 नित्यमुक्तित्वभासनात् असंगचिद्रूपत्वस्य प्रतीयमानत्वात् । निरंकुशा निरवधिः। निरंकुशत्वे कारणमाह,पुनरितेि ॥ ४७॥

 नन्वात्मानं चेद्विजानीयादिति प्रकरणारंभे प्रतिज्ञाते श्रुत्यर्थव्याख्यान प्रकरणे जीवस्य सप्तावस्थाविवरणमप्रसक्तमित्याशंक्य तस्य तत्तात्पर्यनिरूपणो पयोगितया प्रसक्तत्वमित्याह, अपरोक्षेति ।

अपरोक्षज्ञानशोकनिवृत्त्याख्ये उभे इमे ।
अवस्थे जीवगे ब्रूत आत्मानं चेदिति श्रुतिः ॥ ४८ ॥