पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
[तृप्तिदीप
पञ्चदशी

हेतुमुखेन प्रदर्शयति, ब्रह्मेति । स्वप्रकाशं ब्रह्मास्तीत्येवं विबोधनात् इत्येवं परोक्षज्ञानस्यानुभवसिद्धत्वात् ॥ ५० ॥

 अहं ब्रह्मास्मीति ज्ञानस्य परोक्षत्वं व्यवहारतो न युज्यते । यदि परोक्ष ज्ञानं स्यात् घटोऽस्तीत्यादिपरोक्षज्ञानोल्लेखवत् ब्रह्मास्मीत्येवोल्लेखः कार्यः । न त्वहं ब्रह्मास्मीतीति शंकते, अहमिति ।

अहं ब्रह्मेत्यनुल्लिख्य ब्रह्मस्तीत्येवमुल्लिखेत् ।
परोक्षज्ञानमेतन्न भ्रान्तं बाधानिरूपणात् ॥ ५१ ॥

 यद्ययमस्मीति ज्ञानं परोक्षं स्यात् तदाहंब्रह्मेत्यनुलिख्य ब्रह्मास्तीत्येवोल्लिखेत् । तथानुल्लेखात् नेदं परोक्षं ज्ञानम् । समाधत्ते, परोक्षेति। एतत् “ब्रह्मास्ती"ति ज्ञानं तथोल्लेखाभावेऽपि न भ्रान्तम् । कुतः ? बाधाऽनिरूपणात् बाधाया निरू- पणस्याशक्यत्वात् । यदीदं ज्ञानं बाध्यं स्यात् बाधो निरूपणीयः। स तु निरूपि- तुमशक्यः । भ्रान्तत्वं हि बाध्यत्वेन व्यक्त्यनुल्लेखेनापरोक्ष्येण ग्रहणयोग्यस्य पारोक्ष्येण ग्रहणेन अंशाग्रहणेन वा वक्तव्यम् । तत्रैवमपि न घटत इति वक्तुं । प्रथमस्याघटनमाह बाघानिरूपणादिति ॥ ५१॥

 बाधानिरूप्यत्वं विवृणोति, ब्रह्मेति ।

ब्रह्म नास्तीति मानं चेत् स्याद्वाध्येत तदा ध्रुवम् ।
न चैवं प्रबलम् मानं पश्यामोऽतो न बाध्यते ॥ ५२ ॥

 ब्रह्म नास्तीति मानं प्रबलं प्रमाणं स्याच्चेत् तदा ब्रह्मास्तीति परोक्षज्ञानं ध्रुवं बाध्येत । चेदित्युक्त्या तन्न मानमिति सूचितम् । तदाहनेति । एवमभाव- बोधकं प्रबलं मानान्तराबाध्यं मानं “नास्ति ब्रह्मेति ” प्रमाणं न पश्यामः अतोऽस्ति ब्रह्मेति साधकप्रबलमानस्य श्रुत्यादेः सत्वेन तेनेदं मानं बाध्यते । अतस्तस्य मानान्तराबाध्यमानत्वाभावेन तेनाहं ब्रह्मस्मीति ज्ञानं न बाध्यते । एवं चाबाध्यत्वादभ्रान्तत्वत्वं तस्य सिध्यति ॥ ५२॥

 व्यक्यनुल्लेखरूपं द्वितीयमतिप्रसंगेन दूषयति व्यक्तीति ।