पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२६७
कल्याणपीयूषव्याख्यासमेता

"कोऽयमात्मेति वयमुपास्महे " इत्यादिविचारेण तत्त्वं पदार्थशोधनपुरस्सरं "प्रज्ञानं ब्रह्मेति"(ऐ.१.५.३.) प्रज्ञानरूपस्यात्मनो ब्रह्मत्वं दर्शितम् । अस्मिन् संदर्भे पंचमप्रकरणे आदिमपद्यद्वयमवलोकनीयम् ॥ ६८ ॥

 एतदर्थमेवेतरश्रुतिष्वप्यतिदिशति, अवान्तरेति ।

अवान्तरेण वाक्येन परोक्षा ब्रह्मधीर्भवेत् ।
सर्वत्रैव महावाक्यविचारादपरोक्षधीः ॥ ६९ ॥

 अवान्तरेण वाक्येनोषनिषदुपलब्धेनेतरवाक्येन । परोक्षा ब्रह्मधीर्भवेत् । सर्वत्र सर्वासु श्रुतिषु महावाक्यविचारादेव अपरोक्षधीर्भवेदिति योजना ॥ ६९ ॥

 महावाक्यानां ब्रह्मापरोक्षज्ञानजनकत्वं भगवत्पादैरपि प्रतिपादितमित्याह, ब्रह्मेति ।

ब्रह्मापरोक्ष्यसिध्यर्थं महावाक्यमितीरितम् ।।
वाक्यवृत्तावतो ब्रह्मपरोक्ष्ये विमतिर्न हि ॥ ७० ॥

 विमतिर्विसंवादो न । स्पष्टमन्यत् ॥ ७०॥

 वाक्यवृत्तिरीत्या त्वंपदवाच्यार्थमाह, आलंबनेति ।

आलंबनतया भाति योऽस्मत्प्रत्ययशब्दयोः ।
अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः॥ ७१ ॥

 योऽन्तःकरणसंभिन्नबोधः अन्तःकरणेन संभिन्नः संकीर्णस्तदुपाधिको यो बोधश्चिद्रूप: सः अस्मत्प्रत्ययशब्दयोरहमित्याकारकं ज्ञानमहमितिशब्दश्च तयोरालंबनतया विषयत्वतो भाति स्फुरति स बोधस्वंपदाभिधः त्वमितिशब्द वाच्यः । तत्वमसीति महावाक्यगतत्वंपदवाच्यः । अस्मत्प्रत्ययशब्दयोर्विषयत्वेन भासमानोऽन्तःकरणोपाधिकश्चिदात्मा त्वम् शब्दवाच्य इति भावः ॥ ७१॥

 तत्पदवाच्यार्थमाह, मायेति ।

मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः।
पारोक्ष्यशबलः सत्याध्यात्मकस्तत्पदाभिधः ॥ ७२ ॥