पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३०

पुटमेतत् सुपुष्टितम्
[तत्त्वविवेक
पञ्चदशी

निर्मलचेतसां अपेताशेषकलुषान्तःकरणानाम् "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया" (गी. ४. ३४) इति स्मृतेर्गुरुचरणसेवाया एव विशिष्टज्ञानसाधकत्वेनाभ्युपगमात्ः निर्मलचेतसामित्यनेन रागादिदोषादूषितस्साधनचतुष्टयसम्पन्नोऽत्राधिकारीति सूच्यते; एवङ्र्गुणविशिष्टो जिज्ञासुरुपदेशार्हो भवति गुरुसत्तमानामिति भावः। तेषां सुखबोधाय अनायासेन बोधाऽवाप्तये अयं वक्ष्यमाणः तत्त्वस्य विवेकः पञ्चकोशेभ्यो विवेचना विधीयते क्रियते । तत्त्वम्पदाभ्यां बोधितयोः परमात्मप्रत्यगात्मनोरसिशब्देन बोधितमैक्यं, तेन लब्धो योऽखण्डार्धस्स तत्त्वशब्देन विवक्षित; यद्वा तदिति परंब्रह्म तस्य भावः तत्त्वम् । ब्रह्मणो याधार्थ्यमनारोपितस्वरूपं ज्ञेयं वस्तु, तस्य पञ्चकोशेभ्यो विवेको विषय:, ज्ञेयं वस्तु, नस्सुखबोधैव प्रयोजनम् । रागरहितानामधिकारिणां जिज्ञासूनां सुखेन तत्त्वज्ञानावाप्तिसिद्धये परब्रह्मणः पञ्चकोशविवेचनामधिकृत्य तत्त्वविवेकनामकमिदं प्रकरणं विरच्यत इति भावः ॥ २॥

 ननु ब्रह्मणो नित्यैकज्ञानरूपतया तद्भिन्नस्यानृततया च श्रुतिसिध्दत्वेनानुभूयमानो घटज्ञानं पटज्ञानमिति ज्ञानभेदः, घटज्ञानं नष्टमित्यादिनाशव्यवहारश्च कथमुपपद्यत इत्याशङ्क्तं निराकरोति शब्देत्यादिभिः पञ्चभिः।

ज्ञानस्यनित्यत्वनिरूपणम् ।

‘शब्दस्पर्शदयो वेद्या वैचित्र्याज्जागरे पृधक्
ततो विभक्ता तत्संविदैकरूप्यान्न भिद्यते ॥३॥

 तत्र तावदादौ जागरे ज्ञानम्यैकत्वं प्रतिपादयति, शब्देति । शब्दस्पर्शादयः श्रोत्रत्वगादीन्द्रियाणां विषयाः, आदिशब्देन श्रोत्रत्वगादीनि शब्दस्पर्शादीनां ग्राहकेन्द्रियाणि तदभिव्यक्तिस्थानान्याकाशादीनि च गृह्यन्ते, ते वेद्याः विदिक्रियायाः कर्मभूताः ज्ञानविषया इत्यर्थः, ते जागरे सर्वेन्द्रियाणां व्यापारदशायां, वैचित्र्यात् विलक्षणस्वभावोपेतत्वात् पृथक् परस्परं भिन्नः, ततो वैलक्षण्येन प्रतीयमानेभ्यो विषयेभ्यो, विभक्ताः पृथक्कृताः विषयविनिर्मुक्ताः । तत्संवित् तेषां वेद्यानां संवित् ज्ञानं, न भिद्यते । तत्र कारणमाह, ऐकरूप्यादिति, ऐकरूप्यात् एकं रूपं यस्यास्सा एकरूपा । तस्याः भावात्, संवित्संविदित्येकाकरेण