पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२६९
कल्याणपीयूषव्याख्यासमेता

आवश्यकतां दृष्टान्तेन दर्शयति, स इति । सोऽयमित्यादिवाक्यस्थपदयोरिव सोऽयं देवदत्त इत्यादि वाक्येषु स्थितयोः सः अयमित्यादिपदयोर्भागत्यागेन भागपरिग्रहणेन च यथा जहदजहल्लक्षणांगीकृता तद्वदित्यर्थः । एवं च श्रुतिबोधि तसामानाधिकरण्योपपादनाय तत्पदस्य तत्सदृशपरत्वं तदीयपरत्वं एवं प्रकारेणाजह ल्लक्षणा नांगीकार्या । तथा सति सोऽयमित्यादावपि सामानाधिकरण्योपपादनाय तादृशलक्षणांगीकारे व्यवहारानानुगुण्यमनुभवविरोधश्चापद्येत । एतेन तादृशलक्षणया वाक्यार्थं समर्थयन्तःपरास्ता:।तत्त्वविवेकप्रकरणे ४३-४७ श्लोकाववलोक्यताम् ॥७४॥

 नन्वस्तु लक्षणा । तथापि पदादुपस्थितार्थस्याकांक्षादिगम्यः संसर्गो वाक्यार्थ इत्यभिहितान्वयवादिनो मन्यन्ते। अन्वयविशिष्टः पदार्थ एव वाक्यार्थ इत्यन्विताभिधानवादिनो मन्यन्ते । उभयधापि पदार्थद्वयसंसर्गस्य वाक्यार्थ घटकतया कथमसंगब्रह्मबोधोऽस्माद्वाक्याज्जायते ? इत्याशंक्योभयमपि नास्माक- मभिमतमित्याह, अभिहितानां वृत्त्या तत्तत्पदबोधितानामर्थानामन्वय आकां- क्षादिगम्य इति वदन्त्यभिहितान्वयवादिनः । अन्वयविशिष्टमेव वृत्त्या शब्द बोध्यमित्यन्विताभिधानवादिनः । गामानयेत्यादौ गोपदस्य गोरूपोऽर्थः। द्वितीयैकवचनस्य कर्मत्वमर्थः । आङ्पूर्वकनय्धातोरानयनमर्थः । गामानयेति- वाक्यबोध्यो गोकर्मकमानयनमित्येषोऽर्थः वाक्यघटकपदेषु न केनापि बोध्यते । आकांक्षादिवशात् संसर्गरूपो वाक्यार्थो भासत इत्यभिहितान्वयवादिनः । अन्विताभिधानवादिनां मते तु गोपदेनान्वितगोव्यक्त्यादेर्बोधनात् पदार्थो वाक्यार्थश्चैकरूप एव, अन्विताविशेपस्तु पदान्तरसमभिव्याहारादेव तैरप्येष्टव्यम् ।


संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः ।
अखंडैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ७५॥

 अत्र महावाक्यानामर्थकल्पनायां संसर्गः शब्दशक्तिमनुसृत्याकांक्षादिगम्यः संसर्गो वाक्यार्थः। विशिष्टोऽन्वयविशिष्टः यत्र पदप्रतिपाद्योऽर्थः स एव वाक्यार्थो न संमतो नाभिमतः । एवं महावाक्यार्थविचारणे कतृक्रियाकारकविशेषणादिभिः परिच्छिन्नार्थकल्पना किं निषिध्यत इत्यत आह । अखंडेति । अखंडैकरसत्वेन न विद्यन्ते खंडा भागा यस्मिन् सोऽखंडः परब्रह्मणः स्वगतादिभेदत्रयशून्यत्वात् ।