पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
[तृप्तिदीप
पञ्चदशी

 ब्रह्मत्वमभिवांछतो महावाक्याद्ब्रह्मत्वम् कांक्षमाणस्य स्वतः स्वभावतोऽपरोक्षजीवस्यापि प्रत्यगात्मनः सिद्धं दपरोक्षत्वम् तदपि नश्येदिति हेतोस्तव युक्तिर्महतीत्यहो स्वस्यानर्थदायिनी । ब्रह्मत्वरूपेच्छया श्रुतिं विमृशतस्तव स्वभाव- सिद्धमपरोक्षत्वमात्मनो नश्येदिति तव वादोऽत्यन्तमनर्थकारणम् । अतो यथा । जीवस्यापरोक्षत्वं ब्रह्मत्वप्रतिपित्सया नश्यतीति तव वादो न विश्वसनीयस्तथैव महावाक्यानां परोक्षर्थकल्पनापि भवदुक्ता न परेिग्राह्येत्यर्थ: ॥ ८१ ॥

 युक्तेः परिहाससूचितमनर्थदायित्वं विवृणोति, वृद्धिमिति ।

वृद्धिमिष्टवतो मूलमपि नष्टमितीदृशम् ।
लौकिकं वचनं सार्थं संपन्नं त्वत्प्रसादतः ॥ ८२ ॥

 त्वत्प्रसादतस्तापूर्वयुक्तेः प्रभावतो वृद्धिम् ऋणस्य सरळचक्राद्यभिवृद्धिमिष्टवत इच्छत ऋणदातुर्मूलमपि नष्टमितीदृशम् लौकिकं वचनं सार्थमन्वर्थं भवतीत्यर्थः॥८२॥

ब्रह्मणःसोपाधिकत्वविचारः ।

 ननु जीवस्य सोपाधिकत्वादपरोक्षत्वम् युज्यते । तत्वमस्यादिमहावाक्य- जन्यबोधविषयस्य ब्रह्मणस्तु निरुपाधिकत्वादपरोक्षत्वं कथं युज्यत इति शंकते। अन्तःकरणेति ।

अन्तःकरणसंभिन्नबोधो जीवोऽपरोक्षताम् ।
अर्हत्युपाधिसद्भावान्न तु ब्रह्मानुपाधितः ॥ ८३ ॥

 अन्तःकरणसंभिन्नबोधः अन्तःकरणेन संकीर्णश्चिद्रूपो जीव उपाधिसद्भा- वादुपाधेर्वेिद्यमानत्वादपरोक्षतामर्हति । अन्तःकरणोपाधिगतस्य जीवस्यापरोक्षत्वं युज्यते । अनुपाधित उपाधेरभावात् ब्रह्म अपरोक्षतां नार्हति, किंतु परोक्षतामेव । एवं च परोक्षब्रह्मबोधकत्वं वाक्यस्य नापैतीति मदुक्तामागमलक्षणं सम्यगेवेति शंकितुराशयः ॥ ८३ ॥

 बह्मणः परोक्षत्वे उक्तहेतुर्निरुपाधिकत्वरूपोऽसिद्ध इति परिहरति, नेति।

नैवं ब्रह्मत्वबोधस्य सोपाधिविषयत्वतः।
यावद्विदेहकैवल्यमुपाधेरनिवारणात् ॥ ८४ ॥