पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२७५
कल्याणपीयूषव्याख्यासमेता

अहं ब्रह्मेति वाक्येन ब्रह्मत्वं साक्षिणीक्ष्यते ॥ ८९ ॥

 स्पष्टोऽर्थः ॥ ८९॥

ब्रह्मणः फलव्याप्यत्वाभावः ।

 स्वयंप्रकाशस्य साक्षिणो बुद्धिविषयत्वस्यांगीकारे सिद्धान्तभंगापात माशंक्य परिहरति, स्वेति ।

स्वप्रकाशोऽपि साक्ष्येष धीवृत्या व्याप्यतेऽन्यवत् ।
फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम् ॥ ९० ॥

 साक्षी स्वप्रकाशः तस्य ज्ञातुरन्यस्याभावेऽप्यन्यवत् घटपटादिवद्धीवृत्या व्याप्यते बुद्धिविषयो भवतीत्यर्थः । एवं ज्ञात्रन्तराभावतस्साक्षिणो बुद्धिविषयत्व स्यांगीकारेऽपसिद्धान्तापात एव स्यादिति चेन्न, अस्य साक्षिणः फलव्याप्यत्वमेव चिदाभासव्याप्यत्वमेव निवारितम् , न तु बुद्धिव्याप्यत्वमिति तद्धप्यत्वमस्या- स्त्येवेत्यर्थः । अत्रायं भावः । बुद्धिवृतिप्रतिबिंबितचिदाभासेन सर्ववस्तुप्रकाशो भवति । स्वयंप्रकाशमाने साक्षिणि विषये तु स्वस्यैव प्रकाशरूपत्वाच्चिदाभासप्रकाश्यत्वं नापेक्ष्यत इति चिदाभासव्याप्यत्वं निराकृतम् । बुद्धिवृत्तिव्याप्यत्वं त्वावरणनिवर्तकतयोपयोगान्न निवार्यते । अतो नानुपपत्तिः ॥ ९० ॥

 आत्मनि फलव्याप्तिर्नास्तीति द्रढयितुमनात्मन्युभयव्याप्तिम् दर्शयति, बुद्धीति ।

बुद्धितत्स्थचिदाभासौ द्वावपि व्याप्नुतो घटम् ।।
तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् ॥ ९१ ॥

 बुद्धितत्स्थचिदाभासौ बुद्धिश्च तस्यां स्थितो यश्चिदाभासः प्रतिबिंबरूपः तौ द्वावपि घटं व्याप्नुतः । तत्र धिया धीवृत्या घटविषयकज्ञानं नश्येत् । स्फुरणविरोध्यज्ञाननाशे सति आभासेन घटः कंबुग्रीवादिमान् स्फुरेत् । घटो विषयीक्रियते ॥९१ ॥

 साक्षिणः स्वयंप्रकाशत्वेन प्रकाशकान्तरानपेक्षणादावरणभंगाय बुद्धिवृत्तिमात्रमेवापेक्ष्यते इत्याह, ब्रह्माणीति ।