पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७६
[तृप्तिदीप
पञ्चदशी

ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ।
स्वयंस्फुरणरूपत्वान्नाभास उपयुज्यते ॥ ९२ ।।

 ब्रह्मणि तद्विषयेऽज्ञाननाशाय बुद्धेर्वृत्तिव्याप्तिरपेक्षिता । तदावरकाज्ञाना पनोदनाय बुद्धिवृत्तिरपेक्ष्यते । स्वयं स्फुरणरूपत्वात् स्वयंप्रकाशरूपत्वादाभासो नोपयुज्यते । दीपप्रभाभासनायाच्छादनापनोदनमात्रमेवापेक्ष्यते न तु दीपान्तरमिति भावः ॥ ९२॥

 अस्मिन्नर्थे निदर्शनमाह,चक्षुरिति ।

चक्षुर्दीपावपेक्ष्येते घटादेर्दर्शने यथा।
न दीपदर्शने किं तु चक्षुरेकमपेक्ष्यते ॥ ९३ ॥

 चक्षुर्दीपावुभावपेक्ष्येते इति योजना । स्पष्टमन्यत् । जडस्य घटादेर्दर्शने दीपोऽपेक्ष्यते, दीपदर्शने तु चक्षुर्मात्रमेवापेक्ष्यते न तु दीपान्तरम् । तद्वत्कृते ऽपीत्यर्थः॥ ९३ ॥

 ननु यथा साक्षिर्णो बुद्धिव्याप्यत्वं तथैव चिदाभासव्याप्यत्वमपि सिद्धमेव । चिदाभासर्बुद्धिविशिष्टबुद्धिर्वृत्तेश्चिदाभासवैशिष्ट्यानपायादित्यत आह, स्थित इति ।

स्थितोऽप्यसौ चिदाभासो ब्रह्मण्येकीभवेत्परम् ।
न तु ब्रह्मण्यतिशयं फलं कुर्याद्घटादिवद ॥ ९४ ॥

 असौ चिदाभासो बुद्धिव्याप्तौ बुद्धिविशेषणतया स्थितोऽपि ब्रह्मणि पर मत्यन्तमेकीभवेत् । यथा सुविशाले सागरे पतितो वर्षबिंदुर्न समुद्रजलमार्द्रम् करोति किं तु तेन सहैकीभवति तथैवात्रापि । “यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाये” (मुं. ३.२.८.) ति श्रुतिः । किंतु घटादिवद्ब्रह्मण्यतिशयं फलं न कुर्यात् । यथा चिदाभासो घटादिकं व्याप्य तत्स्वरूपं स्फोरयति न तथा ब्रह्मेति भावः ॥ ९४ ॥

 ब्रह्मणि फलव्यापत्यभावे बुद्धिवृत्तिव्याप्तौ च प्रमाणमुदाहरति, अप्रमेयेति ।