पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२७७
कल्याणपीयूषव्याख्यासमेता

अप्रमेयमनादिंचेत्यत्र श्रुत्येदमीरितम् ।
मनसैवेदमाप्तव्यमिति धीव्याप्यता श्रुता ॥ ९५ ॥

 अप्रमेयमनादिं चेत्यत्र "निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितं । अप्रमेयमनादिं च यत् ज्ञात्वा मुच्यते बुधः" (अमृ. ९) इति वाक्ये श्रुत्येदं फलव्याप्ति- राहित्यमीरितम् । अप्रमेयमित्युक्तत्वात् "मनसैवेदमाप्तव्यं नेह नानास्ति किंचने"ति (कठ. २.४.११) धीव्याप्यता श्रुता। तत्रैवेत्यवधारणेन फलव्याप्तिर्नास्तीत्यपि सूचितम् । तथैव “एषोऽणुरात्मा चेतसा वेदितव्य" (मुंड. ३.१.९) इत्यत्रापि फलव्याप्तिविरहितधीव्याप्यत्वमात्रमेव ज्ञेयम् ॥ ९५॥

 "अपरोक्षज्ञानशोकनिवृत्त्याख्ये उभे ” इति श्लोकेनात्मानं चेदिति मन्त्रोऽवस्थाद्वयं ब्रूत इति वक्ष्यति । तत्र केनांशेनापरोक्षज्ञानं ब्रूत इति शंकां परिहरति, आत्मानमिति ।

आत्मानं चेद्विजानीयादयमस्मीति वाक्यतः ।
ब्रह्मात्मव्यक्तिमुल्लिख्य यो बोधः सोऽभिधीयते ॥९६॥

 स्पष्टः पूर्वार्धः। तेन वाक्येन श्रुत्यंशभूतेन ब्रह्मात्मव्यक्तिम् ब्रह्मभिन्नात्मव्यक्तिं प्रत्यगात्मस्वरूपं तमुल्लिख्य विषयीकृत्य यो बोधोऽपरोक्षरूपो ज्ञायते सोऽभिधीयते । तेन वाक्येन ब्रह्मभिन्नप्रत्यगात्मापरोक्षज्ञानमुपदिश्यते ॥ ९६ ॥

अपरोक्षबोधस्य दृढीकरणोपायाः ।

 "नाऽयमात्मा प्रवचनेन लभ्यः” इति (मुंड. ३.२.२.) श्रुतिबोधितात्मज्ञानस्य कष्टसाध्यतां मनसि कृत्वा एवं महावाक्यश्रवणजन्यं ब्रह्मात्मनोरभेदज्ञानमभ्यासेन दृढीकर्तव्य इत्याह, अस्त्विति ।

अस्तु बोधोऽपरोक्षोऽत्र महावाक्यात्तथाप्यसौ ।
न दृढः श्रवणादीनामाचार्यै: पुनरीरणात् ॥ ९७ ॥

 अत्र ब्रह्मात्मैक्यस्थले महावाक्यात् तच्छ्र्वणादपरोक्षः साक्षात्काररूपो बोधो ज्ञानमस्तु । तथापि न दृढः। तस्य ड्र्ढीकरणाय आचार्यै: श्रवणादीनां