पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२७८
[तृप्तिदीप
पञ्चदशी

श्रवणमनननिदिध्यासादीनां पुनः पौनःपुन्येन कर्तव्यतया इरणात् । “आवृत्तिरस- कृदुपदेशा",(ब्र.सू.४.१.१.) दित्यत्र ॥ ९७॥

 आचार्याणामीरणं कुत्रेत्याशंक्य तदुदीरितवाक्यवृत्तिश्लोकमुदाहरति,अहमिति।

अहं ब्रह्मेति वाक्यार्थबोधो यावद्दृढीभवेत् ।
शमादिसहितस्तावदभ्यसेच्छ्र्वणादिकम् ॥ ९८ ॥

 स्पष्टा पदयोजना । दृढज्ञानावाप्तिरेवावृत्तेरवधिरित्यर्थः ॥ ९८॥

तत्प्रतिबन्धप्रतीकारविचारः ।

 दृढज्ञानपरिपंधिनः सन्ति बहवो यतोऽभ्यासावसर इति तानाह, बाढमिति ।


बाढं सन्ति ह्यदार्ढ्यस्य हेतवः श्रुत्यनेकता ।
असंभाव्यत्वमर्थस्य विपरीता च भावना ॥ ९९ ॥

 श्रुत्यनेकता श्रुतीनां नानात्वं, तत्र तत्र श्रुतीनां विरुद्धार्थबोधकत्वाभास संभवान् अर्थस्याखंडैकरसस्याद्वितीयब्रह्मरूपस्यालौकिकत्वेनासंभाव्यत्वम्, विपरीता च भावना कर्तृत्वाभिमानरूप, च शब्देन तद्वद्युत्प्रेक्षिता अन्येऽपि संगृहीताः। इत्येवंविधा बोधा या अदाढर्यस्य हेतवो बाढं सन्ति ॥ ९९ ॥

 श्रुत्यनेकताप्रयुक्तदार्ढ्यस्य प्रतीकारमाह, शाखेति ।

शाखाभेदात्कामभेदाच्छृतम् कर्मान्यथान्यथा ।
एवमत्रापि माशंकीत्यतः श्रवणमाचरेत् ॥ १०० ॥

 शाखाभेदात् ऋग्वेदादिशाखानां भेदात् कामभेदात् कामानामाशिषां भेदाच्च कर्मान्यथान्यथा वैविध्येन श्रुतम् । अत्राऽपि निःश्रेयसविषयेऽप्येवं भेदं माशंकि माशंक्यताम् । इत्यते वेदान्तानां संप्रदायसिद्धं गुरुमुखतः श्रवणमाचरेत् ॥ १०० ॥

 श्रवणलक्षणमाह, वेदान्तेति ।