बुद्धिः । क्षणात् प्रतिक्षणम् । स्पष्टमन्यत् ॥ १०३ ।।
तन्निवारणोपायमाह, ऐकाग्रयादिति ।
तत्वोपदेशात्मागेव भवत्येतदुपासनात् ॥ १०४ ॥ |
सा विपरीतभावना चितस्यैकामग्रयान्निवर्तते । एतत् चितैकाग्र्यं च तत्त्वोपदेशात् प्राक् उपासनात् , उप समीपे आसनं मनसो न्यासः लक्ष्यवस्तुनि स्थिरीकरणं, सगुणब्रह्मणि मनसः स्थिरीकरणद्भवति । उपासनाफलं चित्तैकाग्रयम् । ततो विपरीतभावनानाश इति भावः ॥ १०४ ॥
उपासनानां चित्तैकाग्र्यसंपादनेन विपरीतभावनानिवर्तकतया वाक्यार्थ बोधदृढीभावसाधनत्वमुक्तम् । तदेतन्न स्वकपोलकल्पितं किंत्वाचार्याभिप्रेतमे- वेत्याह, उपास्तय इति ।
उपास्तयोऽत एवाऽत्र ब्रह्मशास्त्रेऽपि चिन्तिताः । |
अत एवोपासनानां परंपरया दाढ्योपायत्वादेव अत्र ब्रह्मशास्त्रेपि ब्रह्मप्रति पादकशारीरकमीमांसाशास्त्रेष्युपास्तयश्चिन्तितास्तृतीये अध्याये । दृढबोधानुपायत्वे तासामुपासनानां ब्रह्मविचारशास्त्रे चिंतनमनुपपन्नमेव स्यात् । अतस्तेषां वेदान्तशास्त्र संबंध उक्तप्रणाळ्योपपादनीय इति तात्पर्यम् । एवं च मदुक्तप्रणाळ्याचार्यसम्मतैव । न स्वकपोलकल्पितेति तात्पर्यम् । ननु कृतोपासनानामुक्तरीत्या वाक्यार्थबोधो दृढो भवति । अकृतोपासनानां कागतिरियाओवयाह, प्रागिति । प्रागनभ्यासिनः उपदेशातेप्रागकृतोपासनस्य पश्चात् उपदेश(नन्तरं ब्रह्माभ्यासेन तच्चित्तैकाग्र्यं भवेत् । तेषां ब्रह्माभ्यासजनितचितैकाग्र्येण विपरीतभावनानिवृत्तौ वाक्यार्थबोधदाढ्येतेति भावः ॥ १०५ ॥
ब्रह्माभ्यासप्रकारविचारः।
ब्रह्माभ्यासप्रकारं विवृणोति, तदिति ।
तचिंतनं तत्कथनमन्योन्यं तत्प्रबोधनम् । |