सा विपरीतभावना तत्त्वभावनया तत्त्वचिन्तनेन नश्येत् । अतो अनिश्च यात्मनो देहातिरिक्ततां पंचकोशेभ्यो भिन्नतां तद्वत् जगतो मिथ्यात्वं च भावयेत् । एवं कृते विपरीतभावना परेतभावना भवतीति भावः ॥ ११२।।
ब्रह्माभ्यासस्य नियमाभावविचारः।
उपासनावत्तत्त्वभावना नियममपेक्षते न वेति शंकते, किमिति ।
किं मंत्रजपवन्मूर्तिध्यानवद्वाऽऽत्मभेदधीः । |
आत्मभेदधीः जगन्मिथ्यात्वधीश्च मंत्रजपवन्नियमितसंख्याविधानेन गायत्र्यादिमंत्रस्य जपवदावृतिवत् , अत मूर्तिध्यानवन्मूर्तेः शंखचक्रगदाधरत्वादि विशेषाकारविशिष्टस्य यस्य कस्यचिद्देवताविग्रहस्य ध्यानवद्यवर्त्या किम् ? अन्यथा लैकिकव्यवहारवन्नियममनलंब्यैव निष्पाद्या ? ॥११३॥ दृष्टफलकतया नात्र कश्चिन्नियम अपेक्ष्यत इति सदृष्टान्तमाह, अन्यथेति ।
अन्यथेति विजानीहि दृष्टार्थत्वेन भुक्तिवत् । |
दृष्टार्थत्वेन प्रत्यक्षोऽनुभूयमानफलकत्वेन भुक्तिवत् सद्यः फलकारि । भोजनमिव अन्यथा नियमं विनानुष्ठेयमिति विजानीहि । तदेव विवृणोति। बुभुक्षुः भोजने तीव्रेच्छवान् कश्चिदपि नियतस्सन् क्वचिदपि जपवत् नियमेने न भुङ्क्ते।
क्षुदुपशमभोजने नियमाभावं प्रपंचयति, अश्नातीति ।
अश्नाति न वाश्नाति भुङ्क्ते वा स्वेच्छयाऽन्यथा । |
क्षुद्बाधानिवर्तयेऽश्नाति, नाश्नाति द्यूतादिना विस्मृतबाधो नाश्नाति, अन्यथा तिष्ठन् गच्छन् शयानो वा स्वेच्छया भुङ्क्ते । स्पष्टमन्यत् । क्षुन्निवृत्तिमात्र फलकं भोजनम् । तत्र नियमविधयस्तु नियमापूर्वसंपत्तये इति भावः ॥ ११५॥
जपविधौतु भोजनवैलक्षण्यं दर्शयति, नियमेनेति ।
नियमेन जपं कुर्यादकृतौ प्रत्यवायतः । |