पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८४
[तृप्तिदीप
पञ्चदशी

अन्यथा करणेऽनर्थः स्वरवर्णविपर्ययात् ॥ ११६ ॥

 जपं नियमेनैव कुर्यात् । तत्र कारणमाह, अकृताविति । अकृतौ नियमेनाकरणे प्रत्यवायतः पापप्राप्ते, अन्यथाकरणे विधिमतिरिच्य करणे स्वरवर्ण विपर्ययात् स्वरस्य वर्णस्य च व्यत्यासात् । “इंद्रशत्रुर्वथस्वे "स्यादिष्विव स्वरतो ऽपराधादिंद्रशत्रोर्यथानर्थोऽभूतथानर्थो निधनमेव स्यात् ॥ ११६ ॥

 ननु क्षुदवाधायां दृष्टानर्थत्वात्तन्निवारणे नियमाभावो युज्यते । विपरीत भावनाया अतथात्वान्मैवमित्यत आह, क्षुथेति ।

क्षुथेव दृष्टबाधाकृद्विपरीता च भावना ।
ज्ञेया केनाप्युपायेन नास्यत्रानुष्ठितेः क्रमः ॥ ११७ ॥

 स्पष्टोऽर्थः । शुद्धायाः प्रत्यक्षत्वाद्यथाकथं निवर्तनीया । तथैव विपरीत भावनायाः दुःखहेतुत्वस्यानुभवसिद्धत्वात् यथाकथं सापि निवर्तनीयेति भावः॥११७॥

 तदुपायं पूर्वोक्तम् स्मारयति, उपाय इति ।

उपायः पूर्वमेवोक्तस्तच्चिन्ताकथनादिकः ।
एतदेकपरत्वेऽपि निबंधो ध्यानवन्न हि ॥११८ ॥

 पूर्वमेव षडुतरशततमे श्लोके । स्पष्टमन्यत् । एकपरत्वेऽपि भाव्यैकपरत्वे सत्यपि मूर्तिध्याने ध्येयैकपरत्ववदत्र भाव्यैकपरत्वमित्येकपरत्वेन भावनाया ध्यान साम्येवेति भावः ॥ ११८ ॥

 ब्रह्माभ्यासरूपम् एतदेकपरत्वे इव ध्यानरूपेऽपि तस्मिन्निर्बंघो माभूत्, अविशेषात् । इत्याशंक्य तस्मिन् निर्बधावश्यकतां तत्स्वरूपप्रदर्शनेन विशदयति, मूर्तीति ।

मूर्तिप्रत्ययसांतत्यमन्यानन्तरितं धियः ।
ध्यानं तत्रातिनिबंधो मनसश्चंचलात्मनः ॥ ११९ ॥

 अन्यानन्तरितं अन्यैर्विजातीयप्रत्ययैरनन्तरितमव्यवहितं धियो मूर्तिप्रत्यय सांतत्वं मूर्तेः ध्येयदेवतायाः प्रत्यया ज्ञानानि तेषां सांतत्यं संततस्याविच्छिन्नस्य