पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२८५
कल्याणपीयूषव्याख्यासमेता

भावः तत् ध्यानमित्यभिधीयते । मनसः चंचलात्मनश्चपलस्वरूपस्य तत्त्रध्यानेऽति निर्बम्धोऽत्यतं निरोधः कर्तव्यः । अनिरोधे प्रत्ययान्तरैर्विच्छेदाद्ध्यानस्वरूपमेव भज्येत ॥ ११९ ॥

 मनसश्चम्चलात्मत्वे गीतावाक्य (६-३४) मुदाहरति, चंचलमिति ।

चंचलम् हि मनः कृष्ण प्रमाधि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ १२० ॥

 हे कृष्ण ! पापनि कर्षतीति कृष्णः। प्रमाधि शरीरमिंद्रियाणि च व्याकुलीकरोति । बलवन्नियमनाशक्यम् । दृढं च्छेदनाशक्यम् । स्पष्टमन्यत् ॥१२०॥

 चित्तनिग्रहदुःसाध्यतां वासिष्ठभाषणेन द्रढयति, अपीति ।

अप्यब्धिपानान्महतः सुमेरून्मूलनादपि ।
अपि वह्नयशनात्साधो विषमश्चित्तनिग्रहः ॥ १२१ ॥

 अब्धिपानादगस्त्यकृतात् , सुमेरून्मूलनात् तत्कार्मुकीचिकषैयेश्वरकृतात् । वह्न्यशनाद्गोपरक्षणार्थं श्रीकृष्णकृतात् । स्पष्टमन्यत् ॥ १२१ ॥

 परब्रह्मचिन्तनास्वेच्छाप्रतिघातो नास्ति । यतो निरोधापेक्षेत्याह,कथनेति।

कथनादैौ न निर्बंधः श्रृंखलाबद्धदेहवत् ।
किंत्वनन्तेतिहसाद्यैर्विनोदो नाट्यवद्धियः ॥ १२२ ॥

 कथनादौ, आदिशब्देन चिन्तनान्योन्यतद्वोधनौ गृह्येते। स्पष्टमन्यत् । परब्रह्मकथासुधास्थलीषु क्रीडने मनसो विषयान्तरचलनाप्रसक्त्या न तत्र निरोधावसर इति भावः ।। १२२॥

 अभ्यासघटकतदेकपरत्वमितिहासादिगोष्ठ्या विहन्यते । अतस्तेषां चतु र्णामभ्यासांशत्वं न युज्यत इत्याह, चिदिति ।

चिदेवात्मा जगन्मिथ्येत्यत्र पर्यवसानतः ।
निदिध्यासनविक्षेपो नेतिहासादिभिर्भवेत् ॥१२३॥