पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३२

पुटमेतत् सुपुष्टितम्
[तत्त्वविवेक
पञ्चदशी

 सुप्तोत्थितस्य, पूर्वे सुप्तः पश्चादुत्थित: यद्वा सुप्तं सुषुप्तिः तस्मादुत्थितः तस्य, सैषुप्ततमोबोधः, सुषुप्तिर्गाढनिद्रावस्था यत्रोपसंहृतानि मनसा सह सर्वेन्द्रियाणि, तत्रानुभूयगानं तमः यदज्ञानं तस्य बोधः न किञ्चिदवेदिषमित्याकारकं ज्ञानं स्मृतिर्भवेत्; सा च नाऽनुभवः, तदा विषयेन्द्रियसन्निकर्षाऽभावात्; नानुमितिः, लिङ्गादेरभावात्; अतः सा स्मृतिः अवबुद्धविषया अवबुद्धोऽवगतो विषयो यस्यास्सा स्मृतिरनुभूतपूर्वविषयजन्यं ज्ञानमेव भवति। तया च नियमेनानुभवपूर्वकतया भवितव्यं, कारणम्य कार्यनियतपूर्ववृत्तित्वात् । स चानुभवोऽवश्यं सुषुप्तिकालिक एव स्यात्, अवस्थान्तरे तदनुभवाऽभावात् । सर्वोऽप्यनुभवो ज्ञानात्मकः । तर्हि सौषुप्तिकानुभवरूपं ज्ञानं किं विषयमेित्याशंक्याह, अवबुद्धमिति । तदा सुषुप्तौ तत् न किचिदवेदिषमिति सर्वजनानुभवसिद्धं तमः अज्ञानं अवबुद्धमनुभूतम्। न किंचिदवेदिपमितिज्ञाने ज्ञानाभावो विषयइति वक्तुं न शक्यते, तस्य दुरुपपादत्वात् । ज्ञानाभावो हि ज्ञानसत्वे दुर्निरूपः। अत्र नित्यस्य अहमिति प्रतीयमानस्य ज्ञानरूपस्य सत्त्वात्तदभावो दुर्निरूपः । प्रतिबंधकवशात् ज्ञानाभाव इतिचेत् किं तत्प्रतिबन्धकम्? स्वरूपावरकं तम इति चेत् तदेव तमः न किञ्चिदवेदिषमित्यनुभवे विषय इति ब्रूमः । किं पृधग्ज्ञानाभावकल्पनया ? तथा च सिद्धं ज्ञानाभवविलक्षणं भावरूपं तमः अज्ञानावरणाभिधेयमिति विवेकः ॥५॥

 सौषुप्तिकसंविदोऽस्तित्वं प्रदर्श्य तस्य विपयाद्भेदं जाग्रदादिसंविदोऽभेदम् च प्रदर्शयन्नित्यत्वमुपपादयति स इति ॥

स बोधो विषयाद्भिन्नो न बोधात्स्वप्नबोधवत् ।
एवं स्थानत्रयेऽप्येका संवित्तद्वद्दिनान्तरे ॥ ६ ॥

मासाब्दयुगकल्पेषु गतागतेष्वनेकधा ।
नोदेति नाऽस्तमेत्येका संविदेषा स्वयम्प्रभा ॥ ७॥

 सः ‘न किञ्चिदवेदिष' मित्याकारकस्मृत्यनुभवरूपो बोधः विपयात् स्वज्ञेयविषयात्तमसो भिन्नः, विषयविषयिणोर्भेदात्, स्वप्नबोधवत् यथा स्वाप्निकज्ञानं स्वविषयात्स्वाप्निकशिरश्छेदादेर्भिन्नं, तथा सौषुप्तिकबोधो बोधात् स्वाप्निकात् न भिन्नः; स्वप्नबोधात्सौषुप्तिकबोधो न भिद्यते, यथा जाग्रद्वोधात्स्वप्नभोधो न