पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८८
[तृप्तिदीप
पञ्चदशी

किं न जीवसि येनैवं करोष्यत्र दुराग्रहम् ॥ १२९ ॥

 आहारादि त्यजन्न जीवेत् । सत्येव जीवने तत्त्वानुसंधानं कर्तुं क्षमते नान्यथा । तथा च तत्वानुसंधानाय जीवनस्यावश्यकतया तत्संपादकतया भोजनादेः परंपरयानुसंधानोपयोगित्वेन तत्त्याज्यत्वं श्रुत्या न बोधितमिति तात्पर्यम्। नैवं विधं शास्त्रन्तराभ्यासादिकमित्याह, शास्त्रान्तरमिति । शास्त्रान्तरं त्यजन् न जीवसि किम् तथा च शास्त्रान्तराभ्यासस्य तत्वज्ञानोपायपरंपराघटकत्वं न सिध्यति । तस्मात्तस्यैव त्याज्यत्वं श्रुतिर्बोधयति । येनैवमनयोर्व्यवहारयोर्वैलक्षण्या- ग्रहणहेतुना दुराग्रहं करोषि दुरभिमानं करोषि । अनयोर्वैलक्षण्यसद्भावात् तव तुल्यत्वाभिमानो दुष्ट एवेति भावः ॥ १२९ ॥

 ननु भवदुक्तं कृष्यादेस्त्याज्यत्वं विद्वदाचारविरुद्धभित्याशंक्याह, जनकेति।

जनकादेः कथं राज्यमिति चेद्दृढबोधतः।
तथा तवापि चेत्तर्कं पठ यद्वा कृषिं कुरु ॥ १३०॥

 श्रुत्या त्याज्यत्वेन प्रतिपादितं राज्यं जनकादेर्विदुष: कथं घटते ।। शास्त्रविरुद्धं नाचरन्ति हि विद्वांसः । परिहरति, दृढबोध इति । श्रुतिर्बोघसंपादनकाले इतरव्यवहाराणां त्याज्यत्वं ब्रूते, न दृढबोधोत्तरम् । तथा च जनकादीनां दृढबोधसंपतेस्तेषां त्याज्यत्वं न ब्रूते । अतस्सेषामाचारो न श्रुतिविरूद्ध एवेति तात्पर्यम् । अतस्तवापि दृढबोधानन्तरं सर्वव्यवहारमंगीकुर्म इत्याह, तथेति । तवापि तथा दृढबोधश्चेत् तदुत्तरं तर्क पठ यद्वा कृषिं कुरु । तादृशस्य तन्निवारणे नास्माकं निर्बंध इत्याशयः ॥१३०॥

जीवन्मुक्तसंसारिणां प्रवृत्तौ विशेषविचारः

 ननु संसारासारताकोविदानां तत्वविदां संसारिणां च तत्र प्रवृत्तेरविशे- पाज्जीवन्मुक्तसंसारिणोः को विशेष इत्याशंक्याह, मिथ्येति ।

मिथ्यात्ववासनादार्ढ्ये प्रारब्धक्षयकांक्षया ।
अक्लिश्यन्त: प्रवर्तन्ते स्वस्वकर्मानुसारतः ॥ १३१ ॥