पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२७९
कल्याणपीयूषव्याख्यासमेता

 जगतो मिथ्यात्ववासनादाढर्ये सति प्रारब्धक्षयकांक्षया प्रकर्षेणारब्धं, यद्वा प्रचुरमारब्धं, यद्वा प्रगल्भमारब्धं, प्रारब्धं तस्यावश्यमुपभोगेनैव नाशेच्छया । स्वस्वकर्मानुसारतः स्वस्य स्वस्य पूर्वजन्मोपार्जितं देहधारणकारणं कर्म तदनुरूप मक्लिश्यन्तः प्रवर्तन्ते । तत्प्रवृत्या तेषां क्लेशो न भवति । संसारिणां तु स भवति । अयमेवोभयोर्विशेष इति ॥ १३१॥

 ननु तेषामपि यदि कर्मानुसारेण प्रवृत्तिः तदा संसारिणामिव निषिद्धा चरणमपि प्रसज्येतेत्याशंकामिष्टापत्त्या परिहरति, अतीति ।

अतिप्रसंगो माशंक्य: खकर्मवशवर्तिनाम् ।
अस्तु वा केन शक्येत कर्म वारयितुं वद ॥ १३२ ॥

 स्वकर्मवशवर्तिनां पूर्वकर्मणोऽनिच्छयापि वशे प्रवर्तमानानामनाचारविषये अतिप्रसंगः क्रममतिरिच्य प्रसंगो निषिद्धाचरणप्रसंगो माशंक्यो न शंकनीयः । अनेकजन्माचरितसुकृतपरिपाकसमुपार्जितसत्संप्रदायानुशिष्टशिष्टाचारविरचिताचारा णां न तेषामन(चारप्रसंग इत्यर्थः । यदा कदापि दुष्कृतप्रारब्धकर्मावशिष्यते तदा नाचारप्रसंगोऽप्यस्तुनाम । तादृक्कर्म वारयितुं केन शक्येत वद। फलदानाय प्रवृत्तस्य प्रारब्धकर्मणः फलदानमन्तरा मुक्तेषुवन्निवारयितुं न कोपीश इत्यर्थः॥१३२॥

 पूर्वोक्तं विशेषं स्पष्टयति ज्ञानीति ।

ज्ञानिनोऽज्ञानिनश्चात्र समे प्रारब्धकर्मणि ।
न क्लेशो ज्ञानिनो धैर्यान्मूढः क्लिश्यत्यधैर्यत ॥ १३३॥

 स्पष्टः पूर्वार्धः । उभयोर्विशेषमाह, नेति । धैर्यात् मनसो निर्विकारत्वं धेयम् सत्स्वपि हेतुषु । तस्मात् ज्ञानिनो प्रारब्धकर्भ हेतुकः क्लेशो न । तेन न संबध्यते । मूढोऽधैर्यतोऽविवेकतः क्लिश्यति खिद्यते । दुःखसंबधवान् भवति ॥ १३३॥

 तत्र दृष्टान्तमाह, मार्ग इति ।

मार्गे गंत्रोद्वयोः श्रान्तौ समायामप्यदूरतः ।

37