पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२९३
कल्याणपीयूषव्याख्यासमेता

ज्ञानिनः प्रारब्धानुभवविचारः।

 ननु ज्ञानिनामपि प्रारब्धकर्मानुसारेण प्रवृत्तिरपरिहार्येत्युक्तम् । तथा सति तदनुकूलेच्छाप्यपरिहार्या स्यात् । इच्छा राग इत्यनर्थान्तरम् । एवं च तदीयभोगोऽपि रागपूर्वक एवेति कुतो न तस्य बंधकत्वमित्याशंक्याह, प्रारब्धेति ।

प्रारब्धकर्मप्राबल्याद्भोगेष्विच्छा भवेद्यदि ।।
क्लिश्यन्नेव तदाप्येष भुङ्क्ते विष्टिगृहीतवत् ॥ १४३ ॥

 क्लिश्यन्नेव दुःखितः सन्नेव न तु प्रीतिपुरस्सरं । विष्टिगृहीतवत् वेतनेनाकृष्टो भृत्य इव। स्पष्टमन्यत् ॥ १४३॥

 उक्तार्थं विवृणोति, भुंजानेति ।

भुंजाना वा अपि बुधाः श्रद्वावंतः कुटुंबिनः ।
नाद्यापि कर्म नश्छिन्नमिति क्लिश्यन्ति सम्ततं ॥ १४४॥

 बुधा विद्वांसः कुटुंबिनो दारैः सह निवसन्तः श्रद्धावन्तः कृत्येष्वासक्ताः प्रारब्धं भुंजाना अपि अनुभवन्तोऽद्यापि ज्ञानोत्पादनानन्तरमपि नोऽस्माकं प्रारब्धं कर्मबंधनं न छिन्नमित्यहो महद्विषादस्थानमस्माकमिति संततं क्लिश्यन्त्यु- द्विग्नमनसो भवन्ति । इच्छया भोगोऽपि तेषां क्लेशपूर्वक एव भवति । आरब्ध- कर्मप्रभवोऽयमस्माकं संसारोऽनिवार्यः, तमननुभूय विदेहकैवल्यमुक्त्त्यानंदो नास्माकं घटत इति तत्फलप्राप्तये प्रारब्धमात्रःक्लेशमनुभवन्तीत्याशयः ॥ १४४ ॥

 तर्हि जीवन्मुक्तिर्न घटते देहपातपर्यन्तं तस्य क्लेशप्रसक्तेरित्याशंक्य परिहरति, नैति ।

नायं क्लेशोऽत्र संसारतापः किंतु विरक्तता।
भ्रान्तिज्ञाननिदानो हि तापः सांसरिकः स्मृतः ॥ १४५ ॥

 अयं नाद्यापि कर्म नश्छिन्नमित्याकारकः क्लेशोऽत्र विद्वद्विषये संसारतापो न; किंतु विरक्तता संसारे वीतरागत्वमेव । तत्र हेतुमाह, भ्रान्तीति । भ्रान्ति ज्ञाननिदानः भ्रान्तिज्ञानमेव निदानं कारणं यस्य सः मिथ्याज्ञानप्रभवस्तापः सांसारिक इति स्मृतः । विदुषां भ्रान्त्यभावेन भ्रान्तिमुलकतापस्यैव सांसारिकत्वेन