पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२९५
कल्याणपीयूषव्याख्यासमेता

मनसो निगृहीतस्य लीलाभोगोऽल्पकोपि यः।
तमेवालब्धविस्तारं क्लिष्टत्वाद्बहु मन्यते ।। १४९ ॥

 निगृहीतस्याभ्यासेन वशीकृतस्य - मनसः योऽल्पकोऽल्पतरो लीलाभोगो लीलार्थमिव भोगः यथा लीलासु फलानभिसंधिस्तथैवानिवार्यप्रारब्धानुभवेऽनभि- संधिर्यस्य सः अलब्धविस्तारं स्वल्पम् भोगं क्लिष्टत्वात् दुःखदिग्धत्वात् बहु मन्यते। भोगविस्तृतेः क्लेशजनकत्वात्तादृशक्लेशपरिहाराय तस्याल्पत्वम् बहूकरोतीति भावः॥१४९

 अत्र दृष्टान्तमाह, बद्ध इति ।

बद्धमुक्तो महीपालो ग्राममात्रेण तुष्यति ।
परैर्नबद्धो नाऽक्रान्तो न राष्ट्रम् बहु मन्यते ॥ १५० ॥

 बद्धमुक्तो बद्धश्च मुक्तश्च युद्धे पराजितः स्वेच्छाप्रदानेनानुगृहीतो महीपालो ग्राममात्रेण तुष्यति । अन्यः परैर्नबद्धो नाऽक्रान्त इति हेतोः राष्ट्रम् बहु न मन्यते । तत्र परकर्तृकाक्रमणबंधरूपदोषयोरसंभावनयेति भावः ॥ १५०॥

 विवेकिनः प्ररब्धवशाद्भोगेच्छा जायत इति किमित्यभ्युपेयम् ? तस्य प्रारब्धमिच्छां न जनयत्येव किमिति नोच्यत इत्याशंकते, विवेक इति ।

विवेके जाग्रति सति दोषदर्शनलक्षणे ।
कथमारब्धकर्मापि भोगेच्छां जनयिष्यति ॥ १५१ ॥

 सुगमा पदयोजना । इच्छां जनयिष्यतीत्यनेन प्रारब्धसदृशीच्छोदेतीति भावः न तु तस्येच्छाजनकत्वोक्तौ तात्पर्यम् । इच्छाविनाशनसमर्थे ज्ञाने सति कथं भोगेच्छा भवेदिति शंका ॥ १५१

त्रिविधेच्छाविचारः।

  समाधातुं प्रारब्धस्य त्रैविध्यं दर्शयति, नेति ।

नैष दोषो यतोऽनेकविधं प्रारब्धमीक्ष्यते ।
इच्छाऽनिच्छा परेच्छा च प्रारब्धं त्रिविधं स्मृतम् ॥ १५२ ॥