पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९८
[तृप्तिदीप
पञ्चदशी

 येन प्रयुक्तः पुरुषः पापमाचरति स एषः सुप्रसिद्धः कामा विषयतृष्णा। स च रजोगुणसमुद्भवः। आशभंगेन प्रतिहत एष कामः क्रोधो भवति । एष कामो महाशनः। अशनमाहारो विषयग्रामः । अत एव महापाप्मा । क्रोधोद्वेके महापापमाचरतीति भावः । एवमिह संसारे नं कामं वैरिणं शत्रुम् विद्धि जानीहि ॥ १६० ॥

 ननु पुरुषप्रवृत्तेः कामक्रोधयोरेव कारणत्वं प्रतीयते न त्वनिच्छाप्रारब्धस्येत्याशंक्य गीतावाक्येन (१८.६०) समाधत्ते, स्वभावजेनेति ।

स्वभावजेन कौंतेय निबद्धः स्वेन कर्मणा ।
कर्तुम् नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥१६१॥

 हे कौंतेय ! स्वेनाचरितेन स्वभावजेन सहजेन प्रारब्धेन कर्मणा निबद्धः सन् यत्कर्म कर्तुं नेच्छसि तत्रेच्छाभावेऽपि तदेव कर्म मोहादविवेकतोऽवशः परवशस्सन् करिष्यसि । एतत्प्रवृत्तिप्रयोजकं प्रारब्धमिच्छाविरहविशिष्टत्वादनिच्छा- प्रारब्धमित्युच्यते ॥ १६१ ॥

 अद्य परेच्छाप्रारब्धं विवृणोति, नेति ।

नानिच्छन्तो नचेच्छन्तो परदाक्षिण्यसंयुताः ।
सुखदुःखे भजन्त्येतत्परेच्छा पूर्वकर्म हि ॥ १६२॥

 केचित्सुखदुःखे अनिच्छन्तो न भजन्ति । इच्छन्तोऽपि न भजन्ति । किन्तु परदाक्षिण्यसंयुताः अन्येषु दाक्षिण्यं अनुकूलस्य भावः, तेन संयुताः सुख- दुःखे भजन्ति । लोकानुग्रहार्धमेव स्वयं सुखदुःखभाजो भवन्तीत्यर्थः । अत्रा- निच्छाप्रारब्धव्यावृत्तये नानिच्छन्त इति इच्छप्रारब्धव्यावृत्तये न चेच्छन्त इति चोक्तम् । एतत्परेच्छापूर्वकर्महि ।। १६२ ॥

किमिच्छन्नित्यत्रेच्छाबाधो निषिध्यते ।

 एवं ज्ञानिनोऽपीच्छाया अङ्गीकारे किमिच्छन्निति श्रुत्यभिहितेच्छानिषेधो विरुध्येतेत्याशंक्य परिहरति, कथभिति ।