पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
२९९
कल्याणपीयूषव्याख्यासमेता

कथ तां किमिच्छन्नित्येवमिच्छा निषिध्यते ।
नेच्छानिषेघः किंत्विच्छाबाधो भर्जितबीजवत् ॥१६३॥

 तर्हि ‘ किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेदि”ति स्थले किमिच्छ न्नित्यामज्ञानिनः कथमिच्छा निषिध्यते ? इच्छानिषेघश्रवणात्तदङ्गीकारः श्रुति विरोध इति तात्पर्यम् । समाधत्ते, नेति । तत्रेच्छानिषेध इच्छाया अभावो न श्रुत्यभिप्रेतः, किन्तु भर्जितबीजवत् अग्निसंतप्तं बीजं यथा रजननासमर्थं तद्व दिच्छाबाधः इच्छायाः कामक्रोधादिमूलकानिष्टप्रवृत्तिजनकत्वमेव निषिध्यते ॥१६३॥

 दृष्टान्तं विवृणोति, भर्जितानीति।

भर्जितानि तु बीजानि सन्त्यकार्यकराणि च।
विद्वदिच्छा तदेष्टव्याऽसत्त्वबोधान्नकार्यंकृत् ॥ १६४ ॥

 अकार्यकराणि अङ्कुरोत्पादनेऽसमर्धानि । असत्वबोधात् काम्यानां मिध्यात्वज्ञानात् । कार्यकृत् कामक्रोधादिशरीरनुतापकारिणी । स्पष्टमन्यत् ॥ १६४ ॥

विद्वदिच्छाविचारः

 एतावतेच्छायाः कार्यजननसामर्ध्ये निषिध्यत इति प्रतिपादितम् । एवं सति फलाभावादिच्छैव नाङ्गीकार्येत्याशंक्याह, दग्धेति।

दग्धबीजमरोहेऽपि भक्षणायोपयुज्यते ।
विद्वदिच्छाप्यल्पभोगं कुर्यान्नव्यसनं बहु ॥ १६५ ॥

 दग्धबीजमरोहेऽपि अङ्कुरोत्पादनाभावेऽपि भक्षणायोपयुज्यते तात्कालिक क्षुन्निवारणे उपयुज्यते । तथैव विद्वदिच्छाल्पं भोगं कुर्यात् । किंतु बहुव्यसनं न कुर्यात् कामादिषु प्रवृत्तिं न कल्पयेत् । एवं प्रारब्धक्षयरूपस्य यत्किंचित्फलस्य सत्वात् फलाभावान्नाङ्गीकार्येति हेतुरसिद्ध इति भावः ॥ १६५

 कर्मैव भोगद्वारा व्यसनं जनयेदित्याशम्क्य परिहरति, भोगेति

भोगेन चरितार्थत्वात्प्रारब्धं कर्म हीयते।
भोक्तव्यसत्यताभ्रान्त्या व्यसनं तत्र जायते ॥ १६६ ॥