पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
[तृप्तिदीप
पञ्चदशी

 अनिवार्यं प्रारब्धं कर्म भोगेन चरितार्थत्वात् हीयते नश्यति । प्रारब्धं कर्मानुरूपं फलं नियच्छत्स्वयं नश्यतीत्यर्थः । तत्र भोग्ये भोक्तव्यसत्यताभ्रान्त्या भोक्तव्यस्य सुखदुःखादेः सत्यत्वे भ्रान्त्या व्यसनं विक्षेपो जायते । शीतोष्णसुख- दुःखयोर्मिथ्याभूतयोः सत्यत्वभ्रान्तिरेव विक्षेपकारणम् । विदुषस्तादृशविक्षेपजनकत्व- भ्रान्तेरसंभवद्भोगमात्रजननेन कृतार्थत्वात् तद्यतिरिक्तं फलं न जनयतीति तात्पर्यम् । एवं च व्यसने भोगद्वारा कर्मणः कारणत्वमन्यथासिद्धम् । कुलालपितुर्घटकार णत्वमिव ।। १६६ ।।

 व्यसनहेतुं भ्रमं विवृणोति, मेति ।

मा विनश्यत्वयं भोगो वर्धतामुत्तरोत्तरम् ।
मा विघ्नाः प्रतिबध्नन्तु धन्योस्म्यस्मादिति भ्रमः ।। १६७ ॥

 अयमद्यनुभूयमानो भोगो मा विनश्यतु । परंतुत्तरोत्तरं भाविकाले वर्धताम् । तं भोगं विघ्ना मा प्रतिबध्नन्तु । भोगस्यान्तरायो भा भवतु । अस्माद्भोगात् धन्यः कृतकृत्योऽस्मीति ज्ञानं भ्रमः । मिथ्यारूपे वैषयिके सुखे दुःखे वा सत्यत्वज्ञानं भ्रम इत्यर्थः ॥ १६७ ॥

 तन्निवारणोपायमाह, यदिति ।

यद्भावि न तद्भावि भाविचेन्न तदन्यथा ।
इति चिन्ताविषघ्नोऽयं बोधो भ्रमनिवर्तकः ।। १६८ ॥

 यद्भावि यद्भवितुमयोग्यं तन्नभावि न भवति; भावि चेत् भवितुं योग्यं चेत् तदन्यथा अभावि न भवति । भवत्येवेत्यर्थः । इत्येवंरूपश्चिन्ताविषघ्नः चिन्ता एव विषः तन्नाशकोऽयं बोधो भ्रमनिवर्तकः भ्रमनिवारकः । प्रारब्धेन यद्विहितं तदवश्यं भवति, तदविहितं न भवतीति ज्ञानं भ्रममपनुद्य तत्साधनचिन्तां निवर्तयतीति भावः ॥१६८॥

 ज्ञान्यज्ञानिनोर्भोगस्य समानत्वेऽपि विक्षेपकारित्वं ज्ञानिनो नेति वैलक्षण्यं कुत इत्यत आह, सम इति ।