पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३०१
कल्याणपीयूषव्याख्यासमेता

समेऽपि भोगे व्यसनं भ्रान्तो गच्छेन्न बुद्धवान् ।
अशक्यार्थस्य सम्कल्पाद्भ्रान्तस्य व्यसनम् बहु ॥ १६९ ॥

 ज्ञान्यज्ञानिनो: प्रारब्धकर्मफलस्य भोगे समेऽप्यज्ञानी भ्रान्तो व्यसनं गच्छेत् । बुद्धवान् ज्ञानवान् न व्यसनं गच्छेत् । भ्रान्तस्य व्यसनस्य सत्त्वे कारणमाह, अशक्येति। अशक्यार्थस्य शक्यत्वेन ज्ञानरूपभ्रान्तिविषयस्य संकल्पात् तद्वशात् भ्रान्तस्य व्यसनं विक्षेपो बहु भवति ॥ १६९॥

 ज्ञानिनो विक्षेपाभावं दर्शयति, मायेति ।

मायामयत्वं भोगस्य बुद्ध्वाऽस्थामुपसंहरन् ।
मुंजानोऽपि न संकल्पं कुरुते व्यसनं कुतः ॥ १७० ॥

 आस्थामपेक्षाम् । अनिवार्यत्वाद्भुंजानोऽपि। मा विघ्ना: प्रतिबद्ध्नंत्विति संकल्पं चिन्ता । व्यसनं तत्साधनानुकूलो विक्षेपः । स्पष्टमन्यत् ॥ १७० ॥

 ननु भोग्यो मायामय इति ज्ञानकालेऽपि तच्चमत्कारानुभवरूपसुखस्य सत्वात् तत्रास्थोपसंहारः कथं घटत इत्याशंकां दृष्टान्तमुखेन परिहरति, स्वप्नेति ।

स्वप्नेन्द्रजालसदृशमचिन्त्यरचनात्मकम् ।
दृष्टनष्टं जगत्पश्यन् कथं तत्रानुरज्यति ॥ १७१ ॥

 स्वप्नेन्द्रजालसदृशं यत्र जगद्व्यापारं निद्रायां सूक्ष्मशरीरसद्भावात् पश्यति स स्वप्न:, तथैव जागरे अक्ष्णोः पुरस्तादेव मन्त्रादिवशादद्भुतं लोकव्यवहारं पश्यति तदिन्द्रजालम्, ताभ्यां सदृशमचिन्त्यरचनात्मकं सत्यत्वेन वाऽसत्यत्वेन वा अनिर्वचनीयकल्पनात्मकं दृष्टनष्टं व्यवहारे सत्यतया दृष्टं परमार्थतया विचार्यमाणे नष्टं मायामात्रमसत् जगत् पश्यन् तत्र तद्विषयिकभोगेऽनुरज्यति आस्थां करोति । यथैन्द्रजालिकनिर्मिते वस्तुनि तदानीन्तनचमत्कारस्य सत्त्वेऽपि नाऽस्थां करोति तथा जगतोऽपि तथाविधत्वेन न तत्राऽस्थां करोतीति भावः ॥ १७१ ॥

 तादृक्ज्ञानं कथ जायत इत्याशंक्य तदुत्पत्त्युपायमाह, स्वेति ।