पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०२
[तृप्तिदीप
पञ्चदशी

स्वस्वप्नमापरोक्ष्येण दृष्ट्वा पश्यन् स्वजागरम् ।
चिन्तयेप्रमत्तः सन्नुभावनुदिनं मुहुः ॥ १७२ ॥

 स्वस्वप्नमापरोक्ष्येण दृष्टवा स्वजागरं पश्यन्ननुभवन्नुभावप्रमत्तः सन् सावधानस्सन्ननुदिनं मुहुर्बहुवारं चिन्तयेत् । “स्वप्नान्तं जागरितान्तं चोभौ येनानु पश्यति । माहन्तं विभुमात्मानं मत्वा धीरो न शोचती” (कठ. २. ४.४.ति श्रुतेः ॥१७२॥

विद्यारब्धयोरविरोधित्वविचारः।

 एवं कृते किंस्यादित्यत आह, चिरमिति ।

चिरन्तयोः सर्वसाम्यमनुसंधाय जागरे ।
सत्यत्वबुद्धिं सन्त्यज्य नानुरज्यति पूर्ववत् ॥ १७३ ॥

 एवमनुदिनमनुभवेन तयोः स्वप्नजागरितयोः सर्वसाम्यमनुभवसमये सत्यत्वप्रतीतिः परिणामे दुःखकारणत्वं नश्वरत्वम् चेत्यादि सर्वविषयेषु तौल्यं मनसि चिरं जागरेऽनुसन्धायाविच्छिन्नज्ञानसन्ततौ विषयीकृत्य जगति सत्यत्वबुद्धिं सन्त्यज्य पूर्ववत् जगत्सत्यत्वज्ञानदशायां यथासक्तो भवति तथा तस्मिन्नानुरज्यति ॥१७३ ॥

 ननु विषयसत्यत्वबुद्धिनिमित्तस्य भोगस्य जगन्मिथ्यात्वज्ञानस्य विरोधात् भोगसिद्धिरेव न स्यादित्याशंक्य, परिहरति, इन्द्रेति ।

इन्द्रजालमिदं द्वैतमचिन्त्यरचनात्वतः ।
इत्यविस्मरतो हानिः का वा प्रारब्धभोगतः ॥ १७४ ॥

 इदं द्वैतं भोग्यजातमचिन्त्यरचनात्वतः इन्द्रजालं तद्वन्मिथ्येत्यविस्मरतो विदुषः प्रारब्धभोगतः पूर्वकर्मनिमित्तसुखदुःखानुभवतः का वा हानिः ? द्वैत- मिथ्यात्वज्ञानप्रारब्धोपभोगयोर्भिन्नविषयत्वाद्भोगस्य विषयसत्यत्वानपेक्षत्वाच्च न तयोर्विरोध इति वाशब्दस्वारस्यम् ॥ १७४ ॥

 तयोर्भिन्नकारणत्वं विशदयति, निर्बन्ध इति ।