पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३०५
कल्याणपीयूषव्याख्यासमेता

किं जिघ्रेत् किं वदेद्वेति श्रुतौ तु बहु घोषितम् ॥१८१॥

 यत्र तु निरस्तसमस्तद्वैतभावस्य साक्षात्कृतब्रह्मद्वैतभावेऽस्य ज्ञानिनो जगत्सर्वं स्वात्माभूत्, तत्र कः प्रमातृत्वविशिष्टः केन साधनेन किं विषयजातं पश्येत् केन किम् जिघ्रेत् , केन किं वदेत्, वेति रसनश्रवणमननत्वगादीतरेन्द्रियाणां व्यापाराभावः कथ्यते । इत्येवंप्रकारेण “यत्र हि द्वैतमिव भवती" (बृ.४.५.१५)ति श्रुतौ तु बहुप्रकारं घोषितं दृढतरमुक्तम् । ज्ञानसामान्ये प्रमातापेक्षितः,विद्वत्तादशायां प्रमातुरभावान्न किमपि ज्ञानं भवति । एवं ज्ञाने विषयस्साधनं चापेक्ष्यते, तदानीं सर्वस्याप्यात्मरूपत्वेनावस्थानात् साधनमपि नास्ति, विषयोऽपि नास्ति, अतश्चक्षुषोऽभावाच्चाक्षुषप्रयक्षगोचरविषयस्य चाभावाच्चाक्षुषज्ञानं न सिध्यति।। एव- मेव सर्वत्राप्यनुसंधेयं । एतेन ततद्विषयाणामिन्द्रियाणां प्रमातृविशिष्टस्य चाभावमेव बोधयति श्रुतिः, न तु मिथ्यात्वम् ॥ १८१ ॥

 एवं श्रुत्यर्थमुक्त्वा तद्विरोधं शंकते, तेनेति ।

तेन द्वतमपह्नुत्य विद्योदेति नान्यथा ।
तथा च विदुषो भोगः कथं स्यादिति चेच्छृणु ॥ १८२॥

 तेनैवम् श्रुत्या कथनेन द्वैतं सर्वमपह्नुत्य विनाश्य अनन्तरमेव विद्या ज्ञान मुदेति । अन्यथा द्वैतनाशमन्तरेण तन्मिध्यात्वज्ञानमात्रेण विद्या नोदेति । तथा च विदुषो भोगः कथं स्यादित्युच्यते चेत्तत्र समाधानं श्रुणु ॥ १८२॥

 अस्याः श्रुतेर्भवदभिमतार्थे न तात्पर्यमिति बादरायणेनैवोक्तत्वान्नात्र समाधातुमस्माभिर्यतितव्यमित्याह, सुषुप्तीति ।

सुषुप्तिविषया मुक्तिविषया वा श्रुतिस्त्विति ।
उक्तं स्वाप्ययसंपत्योरिति सूत्रेऽह्यतिस्फुटम् ॥ १८३ ॥

 एषा श्रुतिः सुषुप्तिविषया उत मुक्तिविषयेति "स्वाप्ययसंपत्योरि"ति ब्रह्मसूत्रे अतिस्फुटमुक्तम् । “स्वाप्ययसंपत्योरन्यतरापेक्षमाविष्कृतं ही” (ब्र.सू.४. ४.१६)ति । सूत्रस्यायमर्थः । स्वाप्ययः स्वस्मिन्नप्ययो लयः सुषुप्तिर्गाढनिद्रा

39