यस्यां सर्वेन्द्रियाणि मनसा सह लयं गतानि, “स्वमपीतो भवती” ति (छा. ६. ८. १) श्रुतेः । संपतिर्मोक्षः साक्षात्कारावस्था, तयोरन्यतरापेक्षमन्यतरत् एकतर- मपेक्षत इत्याविष्कृतं प्रकाशितम् । आविष्कारप्रकारश्च भाष्यादितोऽवसेयः । "यत्र सुप्तो न कंचन कामं कामयते न कंच न स्वप्नं पश्यती (बृ. ४.३१९.) ति, श्रुत्या सुषुप्त्यपेक्षता “यत्र स्वस्य सर्वमात्मैवाभूत्” इति श्रुत्या (.४. ५ १५, मोक्षापेक्षता च प्रदर्शितेति भावः ॥ । १८३ ।।
तन्मात्रविषयत्वानङ्गीकारे लोकव्यवहार एव न घटत इति बाधकं दर्श यति, अन्यथेति ।
अन्यथा याज्ञ्यवल्क्यादेराचार्यत्वं न संभवेत् । |
अन्यथा निरुक्तश्रुतेस्तन्मात्रविषयकत्वानङ्गीकारे इतरव्यवहारविषयेप्यङ्गीकारे इति यावत् याज्यवल्क्यादेराचार्यत्वं न संभवेत् । सर्वस्य परित्यागेन स्वयमाचरन्। जनकादेरुपदेशेनाचारे स्थापयन् याज्ञवल्क्योऽन्वर्थ आचार्यो भवति । तत्रोपपत्ति माह, द्वैतेति ।द्वैतदृष्टौ द्वैतस्योपदेशक उपदेश्यो ज्ञाता ज्ञेयमित्यादिद्वन्द्वस्य दृष्टौ बुद्धौ भासमानायां सत्यां अविद्वत्ता द्वैतादृष्टौ द्वैतस्याभाने उपदेशकस्य वाङ्न वदेत् । न प्रसरेत् । द्वैतस्थितिमाश्रित्य तन्मिथ्यात्वं जानत एवाचार्यत्वमुपपद्यते न तु द्वैतनाशाभ्युपगमे; तन्नाशे उपदेष्टृत्वादेरसंभवादिति भावः ॥१८४॥
विद्यास्वरूपनिरूपणम् ।
विद्याऽपरोक्षेति न सिध्यति, द्वैतप्रतीतिसद्भावात् । यदा दैतप्रतीतिर्नास्ति तदानींतनविद्यैवापरोक्षविद्या, सां निर्विकल्पकसमाधौ वर्तमानेत्याशंक्याह, निर्विकल्पेति ।
निर्विकल्पसमाधौ तु द्वैतादर्शनहेतुतः । |
निर्विकल्पसमाधौ निर्गतो विकल्पो ज्ञातृज्ञेयादिविभागो यस्मात् स समाधिरेकाग्र्यतया ध्येयवस्तुनि मनसः स्थापनम्, तदवस्थायां द्वैतादर्शनहेतुतः