पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३०७
कल्याणपीयूषव्याख्यासमेता

जगतोऽप्रतीतिहेतोः सैव द्वैतविस्मृतिरेवापरोक्षविद्येत्युच्यते चेत्, द्वैतस्याप्रतीति- रेवापरोक्षज्ञाननिदानमिति चेत् सुषुप्तिरपि तथा समाधिसदृश किं न स्यात् ? तत्रापि द्वैतादर्शनात् ॥ १८५॥

 सुषुप्तिसमाध्योर्द्वैतदर्शनाभावस्य समत्वात् द्वैतदर्शनाप्रतीतिरेवापरोक्षविद्येत्युक्तप्रायम्। तत्तु न घटते, जडादावतिप्रसक्तत्वात् । अतो द्वैताप्रतीतिसमकालिकात्मतत्वज्ञानं विद्येत्यभ्युपेयम् । तथा च विशेषांशस्यानतिप्रसक्तत्वात्तन्मात्रमेव विद्यालक्षणमस्तु, न तु विशेषणांशोपयोगः । एवं सुषुप्तावात्मतत्त्वज्ञानरूपापरोक्षविद्याभाव इति न समाधिसाम्यमित्याशंक्य परिहरति,आत्मेति।

आत्मतत्त्वं न जानाति सुप्तौ यदि तदा त्वया।
आत्मधीरेव विद्येति वाच्यं न द्वैतविस्मृतिः ॥ १८६ ॥

 सुप्तावात्मतत्वं आत्मनो यथार्थस्वरूपं यदि न जानात्यतो विशेष्याभावान्न तदानींतनज्ञानस्य मिथ्यात्वमिति चेदुच्यते, तदेति । तदा त्वयाऽत्मधीरवे आमतत्वज्ञानमेव विद्येति वाच्यं अवश्यं वक्तव्यम् । द्वैतविस्मृतिस्तु जगतोऽभानं तु न विद्या ॥१८६॥

 एवं च द्वैतविस्मृत्यात्मज्ञानयोस्सम्मेलनं विद्यात्वमिति विवदन्तमुपहसति,उभयामात

उभयं मिलितं विद्या यदि तर्हि घटादयः ।
अर्थविद्याभाजिनः स्युः सकलद्वैतविस्मृतेः ॥१८७॥

 उभयं द्वैतविस्मृतिरात्मज्ञानमिति द्वयं मिलितं सम्मिश्रितं सत् यदि विद्या स्यात्तर्हि घटादयोऽचेतना अपि सकलद्वैतविस्मृतेः विस्मृतिरूपविद्यांशस्य तत्र विद्यमानत्वादर्थविद्याभाजिनः स्युः ॥ १८७ ॥

 केवलद्वैतविस्मृतिरेव विद्येति वादस्यासामम्जस्यं सोपहासं परिहरति, मशकेति ।

मशकध्वनिमुख्यानां विक्षेपाणां बहुत्वतः ।
तव विद्या तथा न स्याद्घटादीनां यथा दृढ़ा ॥ १८८ ॥