पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३४

पुटमेतत् सुपुष्टितम्
[तत्त्वविवेक
पञ्चदशी

परप्रेमास्पदत्वं साधयति, मेति । हि यस्मात् कारणात् मा न भूवं न कदापि नाभूवं ममासत्वं माभूत्, किञ्च भूयासमेव सदा मम सत्त्वमेव भूयादिति कामयमानस्य आत्मनि प्रेम ईक्ष्यते दृश्यते ॥ ८॥

एवमात्मनि प्रेमास्पदत्वं प्रदर्श्य तस्य प्रेम्णः परत्वं साधयति,तदिति ।

तत्प्रेमार्थमन्यत्र नैवमन्यार्थमात्मनः।
अतस्तत्परमं तेन परमानन्दताऽत्मनः ॥ ९॥


 अन्यत्र जायापतिवित्तश्वादिपु यत् प्रेम प्रदर्श्यते तत्प्रेम आत्मार्थमात्मनः प्रयोजनायैव । एवम्प्रकारेण आत्मनि दृश्यते यत्प्रेम तदन्यार्थमन्यप्रयोजनाय न । ‘आत्मनस्तु कामाय सर्वं प्रियं भवती' ति श्रुतेः. (बृ.४. ५. ६)। अतः आत्मनि दृश्यमानं यत्प्रेम तत्परमं निरतिशयं भवति । निरतिशयत्वं च प्रेमान्तरा प्रयोज्यम् । आत्मनि प्रेम प्रेमाऽन्तराप्रयोज्यम्। दारादिषु प्रेम तु आत्मप्रेम प्रयोज्यम्। तेनाऽत्मनः परमानन्दता । आत्मन्यनुभूयमानं प्रेम प्रयोजनान्त रानपेक्षि, अन्यत्र तु आत्मप्रेमापेक्षि; इति परमप्रेमास्पदत्वेन आत्मन एव निरति शयसुखानन्दत्वमिति भावः ।

 विषयोऽयं द्वादशाध्याये षष्टश्लोकादारभ्य पंचाशत्तमश्लोकपर्यन्तं विपुलतरं व्याख्यातः ॥ ९ ॥

 एवंतावन्नित्यसत्यस्वप्रकाशस्वरूपा संवित्, सैव परमानन्दस्वरूपा आत्माऽभिन्नेति च प्रदर्शिता । तस्याः परब्रह्माऽभिन्नत्वं दर्शयति, इत्थमिति ।

ज्ञानस्य परब्रह्माभिन्नत्वनिरूपणम् ।

इत्थं सच्चित्परानन्द आत्मा युक्त्या तथाविधम् ।
परं ब्रह्म तयोश्चैक्यं श्रुत्यन्तेषूपदिश्यते ॥ १०॥


 इत्थं तृतीये श्लोके ज्ञानस्य नित्यत्वमुक्तवा तस्यैवाष्टमे आत्मत्वं प्रतिपाद्य आत्मनो नवमे परानन्दरूपत्वं च प्रदर्शितम् । एवं युक्त्या लोकानुभवहेतुपरामर्शेन आत्मा सञ्चित्परानन्दः सच्चिदानंदरूप इति सिद्धः। आत्मनि परानन्दत्वं