एवंज्ञानिनो विषयेच्छायाः सुखसाधनत्वज्ञानपूर्वकेच्छाभावस्य च श्रुति- तात्पर्यविषयतया वर्णने प्रमाणं फलविधया प्रदर्शयति, राग इति ।
रागो लिंगमबोधस्य सन्तु रागादयो बुधे । |
“रागो लिंगसबोधस्य चित्तव्यायामभूमिषु । कुतः शाद्वलता तस्य यस्यासिः कोटरे तरोः” इति, ज्ञानिनो रागनिषेधपरं शास्त्रम् । “शास्त्रीय समाप्तत्वान्मुक्तिः स्यात्तावतामितेः रागादय: सन्तु कामं न तद्भावोऽपराध्यती” ति तस्यैव रागाभ्युपगमपरं शास्त्रम् । एवं सति शास्त्रद्वयमविरोधतः परस्परविरोधाभावात् बुधे दृढरागाभावे सार्थमेव । अबाधितार्थबोधकमेव । अन्यथा परस्परविरोधाद्बाधितार्थ बोधकतया सप्रतिपक्षन्यायेनाबोधकमेव स्यात् । तयोरबाधितार्थबोधकत्वरूपप्रामाण्य संपादनमेवमाशयवर्णनस्य फलं भवति । एतेनैत्रमाशयवर्णने प्रमिततद्वाक्यद्वयमेवात्र प्रमाणमिति पर्यवस्यति । एवं च रागनिषेधपरस्य शास्त्रस्य दृढरागविषयत्वं तदङ्गीकारपरस्य रागाभासविषयत्वं चेति ज्ञेयम् ॥ १९१ ॥
"कस्येति" शब्दार्थविचारः ।
किमिच्छन्नित्यत्राशयं निरूप्य कस्य कामायेत्यस्याशयमाह, जगदिति ।
जगन्मिथ्यात्ववत् स्वात्मासंगत्वस्य समीक्षणात् । |
जगन्मिथ्यात्वव यथा जगतो मिथ्यात्वस्य ज्ञानात् काम्यकामनयोर्बाघ इति बोधयितुं किमिच्छन्निति श्रुतिः प्रवृत्ता। तथैव स्वात्मासंगत्वस्य स्वात्मन: संगराहित्यस्य समीक्षणात् कामाभावेऽर्थात् कामिनोऽप्यभावे भोक्त्रभावविवक्षया भोक्तृर्भोक्तृत्वविशिष्टत्वनियमाद्विशेषणोभूतभोक्तृत्वाभावे विशेषणाभावात् विशिष्टाभाव इति न्यायेन भोक्त्रभावस्य विवक्षया बोधनेच्छया कस्य कामायेति वचः श्रुतावीरितम् । असेगस्य पुरुषस्य कामाभावे तत्फलभोक्तृत्वस्याप्यभाव इति फलितम् ॥१९२॥