श्रुत्युक्तो भोक्तृत्वप्रतिषेधस्तप्रसक्तिपूर्वकः। आत्मनोऽसंगत्वात् प्रसक्ति रेव नास्ति । तथा च कथं प्रतिषेध उच्यतेत्याशंक्य प्रसक्तिं दर्शयति, पतीति ।
पतिजायादिकं सर्वं तत्तद्भोगाय नेच्छति । |
पतिजायादिकं सर्वं सर्वात्मना पातीति पतिः, जाया जायतेऽस्यामिति जाया, पतिः शुक्लरूपेण भार्यां संप्रविश्य गर्भतामापद्य तस्य पुत्ररूपेण जायते । “आत्मा वै पुत्रनामासी”ति (कौ. २-११) भेने, तस्माज्जायाया जायात्वम्, आदिशब्देन पुत्रवित्तपश्वादयोऽभिहिताः, स' तत्तद्भोगाय तेषां पत्यादीनां भोगाय पुरुषस्तानेच्छति, किं त्वात्मभोगार्थमात्मनस्तु कामाय तानिच्छति, ‘न वा अरे पत्युः कामाय पतिः प्रियो भवतो "त्यारभ्य, "न वा अरे सर्वस्य कामाय सर्वं प्रियं भवती"त्यन्तं बृहदारण्यकश्रुतौ (४. ५. ६) बहु अनेकोदाहरणपूर्वकमुद्रोषितं सुदृढमुक्तम् ॥ १९३ ॥
नन्वेवं भृतिसिद्धे भोक्तृत्वं श्रत्यन्तरं निवारयितुं न प्रभवति, अन्यथा भोक्तृत्वप्रतिपादिकायाः अप्रामाण्यं प्रसज्येत, तत्प्रामण्यं यदि लक्ष्यते तन्नि षेधभोधिकाया अप्रामाण्यप्रसंगः, सेयमुभयतः पाशारज्जुरित्याशंक्य श्रुति बोधितं भोक्तृत्वमारोपितम् , आरोपितभोक्तृत्वस्य प्रसक्तिमादाय निषेधप्रस क्तिरिति समंथयितुं भोक्तृत्वं किमाश्रयकमिति विकल्पयति, किमिति ।
किं कूटस्थश्चिद्भासोऽथ वा किं वोभयात्मकः । |
भोक्तृत्वाश्रयः किं कूटस्थः आहोस्वित् चिदाभासोऽथवोभयात्मकः स्यादिति विकल्पः । नाद्य इत्याह, मोक्तेति । तत्र त्रिषु कूटस्थोऽसंगत्वादधिष्ठा- नतया देहद्वयावच्छिन्नचेतनः कूटवन्निर्विकारत्वात् भोक्तृतां न व्रजेत् ॥ १९४॥
एकत्रैव भोक्तृत्वासंगत्वयोरभ्युपगमे को दोष इत्यत आह, सुखेति ।
सुखदुःखाभिमानाख्यो विकारो भोग उच्यते । |