पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१२
[तृप्तिदीप
पञ्चदशी

 परिशेषितत्वमेवाह, आत्मेति ।

आत्मा कतम इत्युक्ते याज्ञवल्क्यो विबोधयन् ।
विज्ञानमयमारभ्यासंगं तं पर्यशेषयत् । १९८ ॥

 “कतम आत्मेति’ (बृ.४.३.७) जनकेनोक्ते पृष्टे सति याज्ञवल्क्यः आत्मतत्त्वं विबोधयन् “योऽयं विज्ञानमयः प्राणेष्वि"ति विज्ञानमयमारभ्य “तेन भवत्यसंगोह्ययं पुरुषः" (बृ.४.३.१५) इति तमसंगमात्मानं पर्यशेषयत् ॥१९८॥

 एतदर्थमेवैतरेयवाक्येनोदाहरति, क इति ।

कोऽयमात्मेत्येवमादौ सर्वत्राऽऽत्मविचारतः ।
उभयात्मकमारभ्य कूटस्थः शेष्यते श्रुतौ ॥ १९९ ॥

 "कोऽयमात्मेति वयमुपास्महे"(ऐत.३-१) इत्येवमादावात्मविचारत आत्मविचारप्रसंगेन संज्ञानाज्ञानाद्युभयात्मकमारभ्यैतरेयश्रुतावन्ते “प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्मेति", (ऐत.३.३.) कूटस्थ एव शेष्यते । पञ्चमप्रकरणे आदिमश्लोक योः सम्यग्विचारितमिदं वाक्यम् । एवं चोभयात्मकस्य व्यवहारमात्रसिद्धतया भोक्तृस्तद्गतत्वेन भोक्तृत्वस्यापि व्यवहारमात्रसिद्धत्वमेव । अतस्तस्यापि मिथ्यात्वमिति फलितम् ॥ १९९ ॥

 एवं भोक्तृत्वस्यासत्वे सति कुतः सर्वो लोको भोक्तृत्वसत्यत्वधिया तदर्थं यतत इत्याशंक्याह, कूटस्थेति ।

कूटस्थसत्यतां खस्मिन्नध्यस्यात्माविवेकतः ।
तात्त्विकीम् भोक्तृत मत्वा न कदाचिज्जिहासति ।।२००॥

 आत्मा, अत्रात्मशब्दो जीवपरः, स्वरूपे यत्रे देहे मनसि निजे बुद्धौ वह्नौ वायौ जीवे ब्रह्मणि च तस्य प्रयोगात् , अविवेकतः कूटस्थजीवभेदस्य विवेचनाशून्यत्वतः कूटस्थसत्यतां स्वस्मिन्न पारमार्थिकेऽध्यस्य स्वं सत्यं बुद्ध्वा भोक्तृतां स्वनिष्टाम् तात्विकीम् सस्यनिष्ठतया सत्यभूतां मत्वा कदाचिदपि तां भोक्तृतां न जिहासति ॥ २०० ॥