एवमध्यासमूलकतया सिद्धम् लौकिकवृत्तान्तमेव "आत्मनस्तु कामाये"ति । श्रुतिरनुवदति न पारमार्थकमित्याह, भोक्तेति ।
भोक्ता स्वस्यैव भोगाय पतिजायादिमिच्छति । |
स्पष्टोऽर्थः । ‘आत्मनस्तु कामाय सर्वं प्रियं भवती” ति (वृ.४.५,७.) श्रुत्या ॥ २०१ ॥
आत्मनस्तु कामाय सर्वस्य प्रेयस्त्वादात्मैव प्रेष्ट इत्यनूद्य तत्फलमाह, भोग्येति ।
भोग्यानां भोक्तृशेषत्वान्मा भोग्येष्वनुरज्यताम् । |
भोग्यानां पतिजायादिप्रेमभाजां भोक्तुशेषत्वात् भोक्तुरङ्गभूतस्वाद्भोग्येषु मानुरज्यताम्, अत एव प्रथाने भोक्तर्यनुरज्यताम् । एवमाशयकत्वाच्छ्रुतेस्तममनुरागं भोक्तृनिष्ठां प्रीतिं श्रुतिर्विधित्सति । भोक्तर्यनुरागः कर्तव्यो न तु भोग्येष्विति श्रुतेस्तात्पर्यम् ॥२०२ ॥
अत्र पांडवगीतासु प्रह्वादवचनमुदाहरति, येति ।
या प्रीतिरविवेकानां विषयेष्वनपायिनी । |
हे माप मां लक्ष्मीं पातीति मापः,लक्ष्मीपते । सत्यासत्ययोरविवेकानां विवेचनशून्यानां विषयेषु जायापुत्रादिभोग्येषु या अनपायिनी विच्छेदरहिता प्रीतिरासक्तिर्दश्यते सा प्रीतिस्त्वामनुसरतो मे हृदयात् सर्पतु अपगच्छतु। तव भक्तस्य मे हृदयेऽन्यविषयानुरागो मा प्रविशत्वितिभावः । यद्वा अविवेकानां विषयेष्वनपायिनी यादृशी दृढतरा प्रीतिर्दश्यते तादृश्यनपायिनी त्वद्विषयिका प्रीतिस्त्वामनुसरतो मम हृदयान्नापसर्पतु मापगच्छतु । इदं वचनं भोग्येऽनुरागं प्रतिषिध्य प्रथाने भोक्तरि निधत्त इति पूर्वोक्तश्रुतिसमानाकारकमेव ॥२०३ ॥