पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
[तृप्तिदीप
पञ्चदशी

 एवं दृष्टान्तार्थं दार्ष्टान्तिके योजयति, इतीति ।

इति न्यायेन सर्वस्माद्भोग्यजाताद्विरक्तधीः ।
उपसंहृय तां प्रीतिं भोक्तर्येनं बुभुत्सते ॥ २०४ ।।

 न्यायेन पुराणोक्तमार्गेण । भोक्तरि आत्मनि । एनमात्मानं बुभुत्सते बोद्धुमिच्छति । स्पष्टमन्यत् ॥ २०४ ॥

 फलमाह, स्रगिति ।

स्रक्चंदनवधूवस्त्रसुवर्णादिषु पामरः ।
अप्रमत्तो यथा तद्वन्न प्रमाद्यति भोक्तरि ॥ २०५ ॥

 स्पष्टं पूर्वार्धम् । तद्वद्विद्वान् भोक्तरि आत्मनि न प्रमाद्यति प्रमादं नोपैति । किंतु स्वस्वरूपं चिन्तयत्येव ।।२०५॥

 एवभात्मविचारे श्रद्धा कर्तव्येत्याह,काव्येति ।

काव्यनाटकतर्कादिमभ्यस्यति निरन्तरम् ।
विजिगीषुर्यथा तद्वन्मुमुक्षुः स्वं विचारयेत् ॥ २०६ ॥

 मुलभा पदयोजना ॥२०६॥

 एवमैहिकप्रतिष्ठकामनया प्रवृत्तिं दृष्टान्ततयोक्चाऽऽमुष्मिककामनया प्रवृत्तिमपि दृष्टान्तयति, जपेति ।

जपयागोपासनादि कुरुते श्रद्धया यथा ।।
स्वर्गादिवाञ्छया तद्वच्त्रद्वधात्वे मुमुक्षया ॥ २०७ ॥

 जपयागोपासनादि जपो गायत्र्यादेः, यागः सोमादिः। उपासना पञ्चाग्निविद्यादे:, स्वर्गादिवाञ्छया, आदिशब्देन ब्रह्मलोकादि भवति । निर्गुणो- पासनायास्तत्फलकत्वात् । स्पष्टमन्यत् ॥२०७॥

 अणिमालैश्वर्यकामनया प्रवृत्तिमपि दृष्टान्तयति, चित्तेति ।

चित्तैकाग्र्यम् यथा योगो महायासेन साधयेत्