पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
कल्याणपीयूषव्याख्यासमेता

प्रतिपाद्य ब्रह्माभेदं प्रतिपिपादयिषुर्ब्रह्मणः श्रौतं लक्षणमाह, तथाविधमिति । परं ब्रह्म च तथाविधं सच्चिदानन्दरूपमेवेति “सत्यं ज्ञानमनन्तं ब्रह्म (तै.२-१)' ‘विज्ञानमानन्दं ब्रह्म’ (बृ. ३-९-२८)। “अत्रायं पुरुषः स्वयंज्योतिर्भवति।' (बृ.४–३-९) “ज्ञोऽत ए ” (ब्र. सू. २-३-१८) वेत्यादिभिः श्रूयते।। एवं लक्षणैक्यात्तयोरात्मब्रह्मणोस्सिद्धमैक्यं प्रमाणेन भूषयति, तयोरिति । तयोरात्मब्रह्मणोरैक्यमखण्डैकरसत्वं श्रुत्यन्तेषु श्रुतीनामन्तेषु निश्चितार्थासूपनिषत्सु “अयमात्मा ब्रह्मे"त्यादिषु (बृ. ४. ४. ५) उपदिश्यते आप्तीभूय प्रतिपाद्यते ॥१०॥

आत्मनः परमानन्दरूपत्वे विप्रतिपत्तिमाशङ्क्तय परिहरति,अभान इति,

अभाने न परं प्रेम, भाने न विषये स्पृहा ।
अतो भानेऽप्यभाताऽसौ परमानन्दताऽत्मनः॥११॥

 आत्मनः परमानन्दता भासते न वा ? अन्त्ये आह, अभान इति। अभाने सत्यननुभूते सति तस्मिन् परं प्रेम न स्यात्; लोके तावत् ज्ञातपूर्वरामणीयकविषय- स्यैव प्रेमजनकत्वात्; एवं च तस्य परप्रेमास्पदत्वमसिद्धमिति भावः । आद्ये आह, तस्य भाने सति, विषये सुखकारणे स्रगादौ स्पृहा अनुभूयमाना विषयेच्छा न स्यात् । निरतिशयसुखानन्दानुभवे सति तत्साधनीभूतविषयेच्छा न स्यात्, उपाये- च्छाया उपेयेच्छाधीनत्वात्, उपेयस्य आनन्दस्य सिद्धत्वेन तदिच्छाया अनुत्पत्तेः।तथा च वैषयिकसुखेच्छा ह्यनिशं जायमाना अनुपपन्ना स्यात्; अतोऽभानमेवाऽङ्गीकार्यमिति परप्रेमास्पदत्वरूपहेतुरसिद्ध इति प्राप्ते आह, अत इति; अत: उभयधाऽप्यनुपपत्तिरिति हेतोरात्मनोऽसौ परमानन्दता भानेऽप्यभाता भवति । अभानप्राया भवतीति भावः॥११॥

 आत्मानन्दस्याप्यनुभूयमानत्वेऽपि विषयानन्दसम्मिश्रणेन पृथग्भानाऽभावं दृष्टान्तयति अध्येत्रिति,

आत्मभाने प्रतिबन्धविचारः ।

अध्येतृवर्गमध्यस्थपुत्राध्ययनशब्दवत् ।
भानेऽप्यभानं भानस्य प्रतिबन्धेन युज्यते ॥ १२॥