पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
११
कल्याणपीयूषव्याख्यासमेता

प्रकृतिस्वरूपनिरूपणम् ।

चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता ।
तमोरजस्सत्वगुणा प्रकृतिर्द्विविधा च सा ॥ १५॥

 चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता, यच्चिदानन्दरूपं ब्रह्म तस्य प्रतिबिम्बेन प्रतिच्छायया समन्विता युक्ता, तमोरजस्सत्वगुणा तद्गुणत्रयात्मिका या मूलाविद्या सा प्रकृतिरित्युच्यते । चिदानन्दमयप्रतिबिम्बसमन्वितत्वे सति सत्व रजस्तमोणुणात्मकत्वं प्रकृतेर्लक्षणम् । न तु सत्वरजस्तमसां साम्यावस्थारूपत्वं साङ्ख्यतन्त्रोक्तम्। “अध्यारोपाऽपवादाभ्यां निष्प्रपञ्चम्प्रपच्चयते" इति न्यायमनु- सृत्य तत्वं कथयन् लोकव्यवहारसिद्धो जगज्जीवेश्वरभेद औपाधिको, न तु स्वाभाविक इति गूढाऽभिसन्धिपुरस्सरं प्रकृतिद्वैविध्यं निरूपयति, द्विविधेति,सा प्रकृतिर्द्विविधा भवति । अनुक्तसमुच्चायकेन चशब्देन “तमःप्रधानप्रकृते"रित्यादि- प्रकारान्तरं संगृहीतं भवतीत्याशयेन त्रैविध्योक्तिः । तस्मात्त्रिविधा प्रकृतिरित्यभिप्रायः । उक्तत्रैविध्यमेव षट्चत्वारिंशत्तमे श्लोके स्पष्टमुदाहृतम् । अत्र त्रिविधेति कथनीये द्विविधा च सेति द्वैविध्यबोधनात् जीवेश्वरोपाधिभेदेन प्रकृतेर्द्वैविध्यं, षठचत्वारिंशत्तमे त्रितयोति व्यवहारोऽवयवावयविन्यायेन समाधातुं शक्यमिति सुधीभिराकलनीयम्। पक्षेऽस्मिन् द्वैविध्यसमर्थनं त्वित्थं बोध्यम्, जीवेश्वरोपाधिभेदेन द्विविधैव प्रकृतिः । तत्रेश्वरोपाधिभूताया मायाया जगदुपादानत्वनिमित्तत्वसंपादकत्वरूपधर्मवैलक्षण्येन भेदं परिकल्प्य मायावान्तरभेदस्याप्यवयवावयवस्समुदायावयव इति न्यायेन प्रकृत्येकदेशत्वमभ्युपेत्य त्रयवकत्वं प्रकृतेरित्याशयेनात्रैवमुक्तिस्संगच्छते। अन्यथा सृष्टिस्थितिलयकारणत्वेन सत्त्वरजस्तमसामुद्रेकस्य तदा तदावश्यमभ्युपेयत्वेन प्रकारान्तरस्यापि सम्भवेन त्रितयीत्युक्तेर्न्यूनता दुष्परिहारा। पूर्वत्र तु जीवेश्वरो- पाधिप्रदर्शनतात्पर्येण तदवान्तरभेदानपरिगणय्य द्वैविध्यमुक्तमिति ॥ १६॥

 उक्तविभागं विवृणोति, सत्त्वेति,

कारणशरीरनिरूपणम् ।

सत्त्वशुद्ध्यविशुद्धिभ्यां मायाऽविद्ये च ते मते ।
मायाबिम्बो वशीकृत्य तां स्यात्सर्वज्ञ ईश्वरः ॥ १६॥