पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५८
[कूटस्थदीप
पञ्चदशी

विदार्यैतया द्वारा प्रापद्यते" (ऐ.१.३.१२) युक्तामैतरेयश्रुतिमर्थतः पठति,कथमिति ।

कथं न्विदं साक्षदेहं मदृते स्यादितीरणात् ।
विदार्य मूर्धसीमानं प्रविष्टः संसरत्ययम् ॥ ३७ ॥

 "सोऽद्य एव पुरुषं समुद्धृत्यामूर्छय"दित्यारभ्य “शिश्नाद्रेतो रेतस आपः" (ऐत.१.४.) इत्यन्तया श्रुत्याऽभिहितमिदं साक्षदेहं अक्षाद्यवयवोपेतं चैतन्यरहितं देहं मदृते चैतन्यस्वरूपं मां विना कथं नु स्यात्कथं निर्वहेदितीरणात्कथनात् अयमात्मा सीमानं कपालत्रयमध्यदेशं विदार्य देहं प्रविष्टः सन् जगति । संसरति ॥३७॥

 ननु क्रियादिविकाररहितस्यासंगस्यात्मनः प्रवेशोऽयुक्त इत्याशंक्य समाधत्ते, कथमिति ।

कथं प्रवेशोऽसंगश्चेत् सृष्टिर्वाऽस्य कथं वद ।
मायिकत्वं तयोस्तुल्यं विनाशश्च समस्तयोः ॥ ३८ ॥

 यदि असंगश्चिदात्मा तस्य कथं प्रवेशः इत्युच्यते चेदस्य सृष्टि: तत्कर्तृक जगत्सर्जनक्रिया कथं कृतेति वद । स्वयमेव समाधत्ते, मायिकत्वमिति ।। तयोः सृष्टिप्रवेशक्रिययोः मायिकत्वं मायाकल्पितत्वम् तुल्यम् । तयोर्विनाशश्चानित्यत्वं च समः ॥ ३८॥

 सोपाधिकस्य विनाशोऽनिवार्य इति श्रुत्या प्रमाणयति, समुत्थायेति ॥

समुत्थायैष भूतेभ्यस्तान्येयानुविनश्यति ।
विनष्टमिति मैत्रेय्यै याज्ञवल्क्य उवाच हि ॥ ३९ ॥

 एषः प्रज्ञानघन आत्मा भूतेभ्यो देहेंद्रियाद्युपाधिभ्यः समुत्थाय जीवत्वाभिमानमवाप्य यदा तानि विनश्यन्ति तदा तान्येवानुविनश्यति । तत्कृतजीवत्वाभिमानं जहातीत्यर्थः इति याज्ञवल्क्यः, "प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यती"ति, (बृ. ४. ५. १३) विनष्टं सोपाधिकस्य विनाशं श्रुतौ