वियदादीनां रजोऽम्शानां प्रत्येकमसाधारणकार्याणि कर्मेन्द्रियाण्याह, रजोऽम्शैरिति ।
रजोऽम्शैः पञ्चभिस्तेषां क्रमात्कर्मेन्द्रियाणि तु । |
तेषां वियदादीनां क्रमाद्रजोऽम्शै: प्रत्येकं प्रत्येकं वाक्पाणिपादपायूपस्थाऽभिधानानि कमेंन्द्रियाणि क्रियाचरणयोग्यानीन्द्रियाणि जज्ञिरे अजायन्त ॥२१॥
तेषां समष्टिकार्यभूतं प्राणपञ्चकमाह तैरिति ।।
तैस्सर्वैस्सहितैः प्राणो वृत्तिभेदात्स पञ्चधा। |
तैस्सर्वैस्सहितैः वियदादीनां रजोऽम्शानां सम्मिश्रितैः प्राणोऽजायत । स प्राणो वृत्तिभेदात् प्राणनादिव्यापारभेदात् पुनः पञ्चधा भवति । एवं ते पञ्चविधाः प्राणाः प्राणोऽपानस्समानः उदानव्यानौ चेति व्यवह्रियन्ते । तत्तद्वृत्तिव्यञ्जकपदेनैव तत्तन्नामापि गृह्यते। प्राणनात्प्राणो भवति । अपनयनान्मूत्रपुरीषादेरपानोऽधोवृत्तिर्वायुः; समानो नाम भुक्ताऽन्नादेस्समीकरणे नाभिदेशस्थो वायुविशेषः। उद्वेजयति मर्माणि उदानो नाम मारूतः । व्यानो व्यानयत्यन्नम् सर्वव्याधिप्रकोपनः ॥२२॥
एवमाकाशादीनां सत्त्वरजोऽम्शानां समष्टिव्यष्टिभूतानां बुद्ध्यादीनां समाहारस्सूक्ष्मशरीरमित्यभिधीयत इत्याह, बुद्धीति,
बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया । |
बुद्धिकर्मेन्द्रियप्राणपञ्चकैः बुद्धीन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणपञ्चकं तैः मनसा विमर्शाऽत्मकेन, धिया निश्चयरूपया सह सप्तदशभिसूक्ष्मं शरीरं भवति । तदेव लिङ्गमिति लिङ्गशरीरमिति संज्ञान्तरेणोच्यते ॥२३॥