पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
१५
कल्याणपीयूषव्याख्यासमेता

सूक्ष्मशरीराभिमानप्रयुक्तं प्राज्ञेश्वरयारेवस्थान्तरमाह प्राज्ञेति ।

प्राज्ञस्तत्राऽभिमानेन तैजसत्वं प्रपद्यते ।
हिरण्यगर्भतामीशस्तयोर्व्यष्टिसमष्टिता ॥ २४॥

 तत्र लिङ्गशरीरे अभिमानेन तादात्म्यसम्भवेन प्राज्ञो मलिनसत्त्वप्रधानाविद्योपाधिको जीवः तैजसत्वं तैजस इति शास्त्रप्रसिद्धिं प्रपद्यते प्राप्नोति । ईशः विशुद्धसत्त्वप्रधानमायोपाधिकः परमेश्वरस्तत्र शरीरेऽहमित्यभिमानेन हिरण्यगर्भतां हिरण्यगर्भ इति प्रसिद्धिं प्रपद्यते । प्राजेश्वरयोस्सूक्ष्मशरीराभिमाने समाने किंरूपस्तयोर्भेद इत्यत आह, तयोरिति । व्यष्टिसमष्टिता एव तयोर्भेदः; तैजसो व्यष्टिरूपः; हिरण्यगर्भस्समष्टिरूपः । राजेव हिरण्यगर्भस्सर्वप्राणिष्वभिमानवान् भवति, प्रजा इव जीवाः स्वस्वोपाध्यभिमानवन्तो भवन्तीति भावः । २४॥

तैजसहिरण्यगर्भयोर्व्यष्टिसमष्टिरूपत्वे कारणमाह, समष्टिरिति ।

समष्टिरीशस्सर्वेषां स्वात्मतादात्म्यवेदनात् ।
तदभावात्ततोऽन्ये तु कथ्यन्ते व्यष्टिसंज्ञया ॥ २५॥

 ईशः हिरण्यगर्भस्सर्वेषां सूक्ष्मशरीरोपाधिकानां तैजसानां स्वात्मतादात्म्य- वेदनात् स्वात्मना तादात्म्यस्यैकत्वस्य वेदनात् परिज्ञानात् समष्टिर्भवति । ततो हिरण्यगर्भाद्भिन्ना अन्ये जीवास्तु तदभावात् तस्य सर्वेषां स्वात्मतादात्म्यवेदनस्य अभावात् व्यष्टिसंज्ञया कथ्यन्ते । जीवानां तु प्रत्येकं तत्तत्तादात्म्यवेदनमेव, न सर्वतादात्म्यवेदनमिति भावः ॥ २५ ॥

पुञ्जीकरणविवरणम् ।

 अथ स्थूलसृष्टिविवक्षया पञ्चीकरणं विवृणोति, तदिति ।

तद्भोगाय पुनर्भोग्यभोगायतनजन्मने ।
पञ्चीकरोति भगवान् प्रत्येकं वियदादिकम् ॥ २६ ॥

 भगवानणिमाद्यष्टैश्वर्यसम्पन्नः प्रथमतः प्राज्ञादीन् सृष्ट्वा पुनस्तद्भोगाय तैजसानां भोगाय कर्मफलानुभवाय भोग्यभोगायतनजन्मने भोग्यमनुभवार्हमन्नपानादि