पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३

पुटमेतत् सुपुष्टितम्
प्रकंरणम्।]
१७
कल्याणपीयूषव्याख्यासमेता

 व्यष्टिलिङ्गशरीराभिमानिनस्तैजसाः व्यष्टिस्थूलशरीराभिमानेन विश्वतां विश्व इति संज्ञां याताः। तथा विश्वतां यातास्तैजसा एव देवतिर्यङ्नरादय इति जातिभेदेन भिद्यन्ते । ते विश्वसंज्ञिका जीवाः पराग्दर्शिनः पराञ्चि बाह्यानि शब्दादीनि पश्यन्तीति तथोक्ताः । “ पराञ्चि खानि व्यतृणत् स्वयम्भूः” इति (कठ.२.४.१) श्रुतेः । तत्र कारणमाह, प्रत्यगिति । प्रत्यक्तत्वबोधविवर्जिताः यथार्धात्मज्ञानविकला इति हेतुगर्भविशेषणम् । श्रौततत्वज्ञानशून्यत्वमेव तेषां बाह्यदृष्टेः कारणमिति भावः ॥ २९ ॥

जीवस्य संसारप्राप्तितन्निवृत्तिविवरणम् ।

 तेषां बाह्यदृष्टेः फलमाह, कुर्वत इति ।

कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते ।
नद्यां कीटा इवावर्तादावर्तान्तरमाशु ते ॥
व्रजन्तो जन्मनो जन्म लभन्ते नैव निर्वृतिम् ॥ ३०॥

 भोगाय भोगापेक्षया कर्म पुनर्जन्मनिमित्तं शुभाऽशुभं कुर्वते; कर्म कर्तुं भुञ्जते; व्यवहरन्तः तदनुकूलफलं च भुञ्जन्ति तत्फलोचितं जन्म प्राप्नुवन्ति “ रमणीयचरणाः रमणीयां योनिमापद्यन्ते “ (भां.५.१०.७) इत्यादि श्रुतेः। फलोपभोगानन्तरं शेषकर्मोशफलानुभवाय जन्मान्तरमाप्नुवन्ति । “तस्मिन्यावत्स- म्पातमुषित्वाधैतमेवाध्वानं पुनर्निवर्तन्ते” (भां. ५. १०.५) इति श्रुतेः। तत्र दृष्टान्तमाह, नद्यामिति । यथा नद्यां नदीवेगे कीटाः प्रवाहनिरोधनासमर्धा: क्षुद्रप्राणिन आशु शीघ्रं आयासोपशमनात्प्रागेव आवर्तादावर्तान्तरमावर्तपरम्परां व्रजन्ति । तद्वत्ते पराग्दर्शिनो देवादयो जन्मनो जन्म अन्यज्जन्म व्रजन्तो निर्वृतिं निरतिशयसुखं नैष्कर्म्यं नैव लभन्ते “मृत्योस्स मत्युं गच्छति य इह नानेव पश्यती"तिश्रुतेः । (कठ. २.४. ११.)

तर्हि तेषां निर्वृतिप्राप्याशैव नास्तीत्याशङ्कय आह, सत्कर्मेति ।

सत्कर्मपरिपाकात्ते करुणानिधिनोद्धृताः ।
प्राप्य तीरतरुच्छायां विश्राम्यन्ति यथासुखम् ॥ ३१ ॥

3