पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
१९
कल्याणपीयूषव्याख्यासमेता

पञ्चभूतानां समष्टिकृतैः पञ्चभी रजोंशैरुत्पन्नै: प्राणैः प्राणादिवायुपञ्चकेन कर्मेन्द्रियैस्सह तेषां प्रत्येकं प्रत्येकं रजोंशैरुत्पादितैर्वागादिकर्मेन्द्रियैस्सह दशभिः प्राणः प्राणमयकोशस्स्यात् ॥ ३४ ॥

 अथ मनोमयविज्ञानमयावाह, सात्त्विकैरिति ।

सात्त्विकैर्धीन्द्रियैस्साकं विमर्शात्मा मनोमयः ।
तैरेव साकं विज्ञानमयो धीर्निश्चयात्मिका ॥ ३५॥

 सात्त्विकैर्धीन्द्रियैस्साकं पञ्चभूतानां प्रत्येकशस्सत्वांशैरुत्पादितानि यानि श्रोत्रादिज्ञानेन्द्रियाणि तैस्सहितं विमर्शात्मा । तेषां समष्टिभूतसत्वांशैरुत्पादितं संकल्पविकल्पात्मकवृत्तिरूपं मनोमयः कोशस्स्यात् । तैरेव ज्ञानेन्द्रियैस्सहिता निश्चयात्मिका धीः निश्चयवृत्तिस्वरूपा बुद्धिर्विज्ञानमयकोशस्स्यात् ॥ ३५ ॥

 अयमत्र संग्रहः । अन्नमय प्राणमय, मनोमय, विज्ञानमयानन्दमया इति पञ्चकोशाः। तमःप्रधानायाः प्रकृतेः कार्यमधिकतमोंशकं सत्त्वरजस्सम्मिश्रितमाकाशादिभूतपञ्चकम् । तेषां प्रत्येकं सत्वरजोम्शसमारब्धे ज्ञानेन्द्रियकर्मेन्द्रियपञ्चके। तेषामेव समष्टिसत्त्वांशोद्भूतं ज्ञानशकत्त्यात्मकमंतःकरणम् । तच्च विमर्शनिश्चयरूपवृत्तिभेदान्मनो बुद्धिरिति द्विविधम् । तेषां समुदायरजोंशसमुद्भतः प्राणः । स च प्राणनादिहेतुः क्रियाशकत्त्यात्मकः प्राणापानादिवृत्तिभेदेन पञ्चधा भवति । एतत्पञ्चकत्रयमंतःकरणं च गुणत्रयस्य तरतमभेदेन सम्मिश्रणाद्भवति । स्थूलशरीरोऽन्नमयकोशः। ततस्सूक्ष्मतरः प्राणमयकोशः। अन्तःकरणोपादानभूतसत्त्वगुणस्य सुखप्रकाशनगुणप्रकटनसामर्थ्यं तत्कार्येऽन्तःकरणेऽप्यभिव्यज्यते । सत्वगुणस्वरूपप्रकाशनात्मिका वृत्तिः संकल्पविकल्पस्वरूपा मन इत्यभिधीयते । तत्स्वरूपसुखाभिव्यञ्जिका निश्चयात्मिका बुद्धिरितीरिता । वृत्तिद्वयस्यापि चक्षुरादीन्द्रियाणि तत्तद्ज्ञानसाधनत्वेनोपकुर्वन्ति । अतो विमर्शसाधनज्ञानेन्द्रियपञ्चकसचिवमन्तःकरणवृतिविशेषात्मकं मनो मनोमयकोशः; निश्चयज्ञानसाधनज्ञानेन्द्रियपञ्चकसचिवान्तःकरणवृत्तिविशेषात्मिका बुद्धिर्विज्ञानमयकोशो भवति । सर्वत्रेदमित्थमिति निश्चयकरणात् प्राग्गुणदोषविषयपरिच्छेदरूपस्यासाधारणकारणस्यावश्यकत्वान्मनोमयकोशस्य कर