पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८

पुटमेतत् सुपुष्टितम्
२२
[तत्त्वविवेक
पञ्चदशी

पञ्चकोशविवेकेन ब्रह्मावाप्तिविवरणम्

 तत्तत्कोशतादात्म्यमापन्नस्य जीवस्य कथं ब्रह्मत्वमित्यत आह, अन्वयेति।

अन्वयव्यतिरेकाभ्यां पञ्चकोशविवेकतः ।
स्वात्मानं तत उद्धृत्य परं ब्रह्म प्रपद्यते ॥ ३७ ॥

 अन्वयव्यतिरेकाभ्यां, अस्मिन्प्रकरणेऽन्वयशब्देनानुवृत्तिर्व्यतिरेकशब्देन व्यावृत्तिश्चाभिधीयते । न तु यत्सत्वे यत्सत्वं यदसत्वे यदसत्वमिति लक्षणलक्षिता। अनुवृत्तिर्नाम प्रतीतिः । व्यावृत्तिर्नामाप्रतीतिः। निजमण्डलं प्रविष्टं सम्राजमनुसृत्य निजमंण्डलान्तमनुवर्तते सामन्तराजः । तस्मिन्मण्डलान्तरं प्रविशति स निवर्तते । समस्तमण्डलानि पर्यटति राजा तत्तत्सामन्तराजैरनुवृतः । ते च स्वस्वमण्डल- सीमान्तमनुवर्त्य ततो निवर्तन्ते । मण्डलान्तरे तु नाऽनुवर्तन्ते । एवं सामन्तराजा सम्राजो भिन्नाः। तथैव ताभ्यां पञ्चकोशविवेकतोऽन्नमयादीनां प्रत्यगात्मनो विभजनेन स्वात्मानं ततः पञ्चकोशेभ्यः सम्राजं सामन्तराजेभ्य इव उद्धृत्य विवेचितमात्मानं बुध्द्था निश्चित्य परं ब्रह्म प्रपद्यते आप्नोति । तद्भावमाप्नोतीति भावः ॥ ३७ ॥

 अन्नरसमयस्स्थूलदेहात्मकोऽयं पुरुषः; अन्नकार्यत्वात्, अन्नेनैवोपचीयमानत्वात्, तस्मिन्नेव विलीयमानत्वाच्च । तत्र स्थूलदेहस्य व्यावृत्तिं पुरुषस्यानुवृत्तिं च दर्शयति, अभान इति ।

अभाने स्थूलदेहस्य स्वप्ने यद्भानमात्मनः ।
सोऽन्वयो व्यतिरेकस्तद्भानेऽन्यानवभासनम् ॥ ३८ ॥

 स्थूलदेहस्यान्नमयकोशस्य स्वप्ने अभाने सति आत्मनो यद्भानं स्फुरणमस्ति सोऽन्वयः । तद्भाने तदात्मनो भानेऽपि स्वप्नेऽन्यानवभासनमन्यस्य स्थूलदेहस्याप्रतीतिर्व्यतिरेकः । अन्नमयकोशो नात्मा, स्वप्ने ह्यात्मनि भासमानेऽपि तद्भाषादिति भावः ॥ ३८ ॥