पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४८
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

धीरःस्थितप्रज्ञ इत्यर्थः । देवं तं दुर्दर्ंशं गूढमनुप्रविष्टं गुह्यहितं गह्वरेष्ठम् पुराणमात्मानं मत्वा विषयेभ्यश्वेतस्समुपसंहृत्यात्मनि समाधायात्रैवास्मिन् जन्मन्येव हर्षशोकौ सन्तोषविषादरूपचित्तविकारौ जहाति । हर्षशोकयोरभावे । एनं धीरं कृताकृते पूर्वकृतं पापमनिष्टप्राप्तिहेतु अकृतं पुण्यमिष्टप्राप्तिहेतु । यद्वा कृतमारब्धमकृतमनारब्धं क्वचिदपि न तापयतो विकारं नापादयतः ।"नैनं कृताकृते तपतः" इति, (बृ. ४.३.२२.श्रुतेः ॥९॥

 अस्मिन् विषयेऽन्यानि बहूनि प्रमाणानि सन्तीत्याह, इतीति ।

इत्यादिश्रुतयो बह्वयः पुराणै: स्मृतिभिस्सह ।
ब्रह्मज्ञानेऽनर्थहानिमानन्दं चाप्यघोषयन् ॥ १० ॥

 बह्वय इत्यादिश्रुतयः। पुराणैः स्मृतिभिस्सह “सर्वभूतस्थमात्मानं सर्व भूतानि चात्मनि । संपश्यन्नात्मयाजो वै स्वाराज्यमधिगच्छती", त्यादिभिस्सह । ब्रह्मज्ञाने सत्यनर्थहानिमानन्दं निरतिशयानन्दरूपमोक्षं चाघोषयन् । इत्यादि श्रुतय इत्यत्रादिशब्देन “इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महतो विनष्टिः" (केन,२-५) “तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्’ (बृ.१.४.१०) “निचाय्य तं मृत्युमुखात्प्रमुच्यते” (कठ.१.३.१५) इत्यादयो गृह्यन्ते ॥ १०॥

ब्रह्मानन्दस्य त्रैविध्योक्तिविचारः।

 ब्रह्मानन्द इत्यत्रानन्द्रशब्दस्य ब्रह्मशब्देन विशेषणादस्त्वानन्दान्तरमित्याशयेन तदभिधाय ततो ब्रह्मानन्दं विवेचयति, आनंद इति ।

आनन्दस्त्रिविधो ब्रह्मानन्दो विद्यासुखं तथा ।।
विषयानन्द इत्यादौ ब्रह्मानन्दो विविच्यते ॥ ११ ॥

 आनन्दो ब्रह्मानन्दो विद्यासुखं विषयानन्दश्चेति त्रिविधः। तेषां मध्य आदाधितरानंदद्वयमूलभूतत्वाद्ब्रह्मानंदो विविच्यते । अनेनाध्यायत्वेन पृथङ्निर्दिश्यमानानां योगानन्दात्मानंदाद्वैतानंदानां ब्रह्मानन्दावान्तरभेदत्सूचनेन तदन्तर्भावान्न त्रैविध्यहानिः । एतेनाग्रे ‘ब्रह्मानन्दो वासना च प्रतिबिंब इति त्रय"मिति (११-८७) श्लोकेऽन्यादृशानन्दत्रैविध्योक्तिरेतद्विभागविरुद्धेति शङ्का निरस्ता ।