पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०

पुटमेतत् सुपुष्टितम्
२४
[तत्त्वविवेक
पञ्चदशी

 समाधौ सुषुप्त्यभानं सुषुप्तेस्तदुपलक्षितकारणदेहात्मिकाविद्याया अभानेऽपि आत्मनो भानं अशेषावरणोच्छेदनानन्तरं प्रकाशनं तिरस्करण्यपनयनानन्तरं दीपस्येव यदस्ति सोऽन्वयः । आत्मभाने प्रत्यगात्मप्रकाशने सुषुप्त्यनवभासनं सुषुप्त्युपलक्षिताज्ञानानवभासनं व्यतिरेकः ।

 अयं भावः । अन्नमयादिपञ्चकोशाः परस्परं व्यावर्तन्ते । एकतरस्य भानेऽप्यन्यतरस्याभानात् । आत्मापि तेभ्यो व्यावर्त्यते, तेषामभानेऽपि तद्भानात् । यदितरेषामभानेऽपि स्वयं भासते तदितरेभ्यो भिद्यते । एवं पञ्चकोशेभ्यः प्रत्यगात्मा विवेचनीय इति ॥ ४१ ॥

 एवं पञ्चकोशविवेकफलबोधिकां ‘‘तां स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृत”मिति । (कठ. २. ३. १७.) श्रुतिमर्थतः पठति यथेति ।

यथा मुञ्जादिषीकैवमात्मा युक्त्त्या समुद्धृतः।
शरीरत्रितयाद्धीरैः परं ब्रह्मैव जायते ॥ ४२ ॥

 यथा मुञ्जान्नामकतृणविशेषादिषेकान्तर्गर्भस्थः कोमलकाण्डस्समुद्धृतः तथा धीरैः धियं रातीति धोरः यद्वा धियमोरयतीति धीरः । शरीरत्रितयात् स्थूलसूक्ष्मकारणशरीरत्रयाद्युक्त्या अन्वयव्यतिरेकरूपया आत्मा समुद्धृतः पृथक्कृतश्चेत्परं ब्रह्मैव चिदानन्दरूपं जायते ॥ । ४२ ॥

"तत्त्वमसीति" वाक्यस्यार्धनिर्णयः

 एवं युक्त्या सम्पादितं जीवब्रह्मणोरैक्यं तत्त्वमसीत्यादिमहावाक्यैरुपदिष्टमित्याह, परेति

परापरात्मनोरेवं युक्त्या संभावितैकता ।
तत्त्वमस्यादिवाक्यैस्सा भागत्यागेन लक्ष्यते ॥ ४३ ॥