पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
२५
कल्याणपीयूषव्याख्यासमेता

 एवं पूर्वोक्तरूपया युक्त्या अन्वयव्यतिरेकरूपया परापरात्मनोर्जीवब्रह्मणोरेकता सम्भाविता ज्ञापिता। सा ह्येकता तत्त्वमस्यादिवाक्यैः भागत्यागेन परस्परविरुद्धतया प्रतीयमानानां भागानां त्यागेन वक्ष्यमाणरीत्या संत्यजनेन लक्ष्यते लक्षणया बोध्यते ॥ ४३ ॥

 भागत्यागविवरणस्य पूर्वाङ्गत्वेन "तत्त्वमसी"ति तिमहावाक्यगततच्छब्दार्थमाह, जगत इति ।

जगतो यदुपादानं मायामादाय तामसीम् ।
निमित्तं शुद्धसत्त्वां तामुच्यते ब्रह्म तद्विरा ॥ ४४ ॥

 तामसीं तमःप्रधानां मायामादाय उपाधित्वेन स्वीकृत्य जगत उपादानमुपादानकारणं शुद्धसत्वां तां मायाप्रकृतिमादाय निमित्तं निमित्तकारणञ्च यद्ब्रह्म भवति तत्गिरा तत्त्वमसीतिमहावाक्ये तच्छब्देनोच्यते बोध्यते । तम:प्रधानीभूत- मायामादाय सृष्टेरुपादानकारणीभूतां, शुद्धसत्त्वप्रधानां तामादाय निमित्तभूतं च ब्रह्म श्रुतिघटकतच्छब्दाभिधेयं भवतीत्यर्थः ॥ ४४ ॥

 अनन्तरं त्वंशब्दार्थमाह, यवेति ।

यदा मलिनसत्त्वां तां कामकर्मादिदूषिताम् ।
आदत्ते तत्परं ब्रह्म त्वंपदेन तदोच्यते ॥ ४५ ॥

 तत्परं ब्रह्म तदेव परं ब्रह्म यदा मलिनसत्त्वामविशुद्धामत एव कामकर्मादि दूषितां यत्र “कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते" इति लक्षितामविद्यास्वरूपां तां प्रकृतिमादत्ते अधितिष्ठति तदा त्वंपदेनोच्यते । परं ब्रह्म अविद्यामास्थाय जीवस्वरूपेण यदा भोगायतनपरम्परामभिमन्यते तदा त्वंपदवाच्यं भवतीति भावः ॥ ४५ ॥

 तत्त्वंपदार्थमभिधाय वाक्यार्थमभिदधाति, त्रितयीति ।

त्रितयीमपि तां मुक्त्वा परस्परविरोधिनीम् ।
अखण्डं सच्चिदानन्दं महावाक्येन लक्ष्यते ॥ ४६ ॥